पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
206
अलङ्कारमणिहारे

 अंब वधूमणि भवतीमम्बुरुहाक्षोऽपि वक्षसि बिभर्ति । किं बहुनाऽखिलजगतां त्वं बहुमान्या सुधाम्बुनिधिकन्या ॥ १७४२ ॥

 अत्र अंबवधू इतिपदैकदेशाभ्यां अनर्थकाभ्यां बवकरणनामरूपसूच्यार्थस्य प्रस्यायनम् ॥

 निरुपमवरतमसुगुणाङ्कुरनिकुरुंबालवालभूतां त्वाम् । तुरगवदनस्य तरुणीं तरुणाम्बुजलोचनां श्रये शरणम् ॥ १७४३ ॥

 अत्र निकुरुम्बालवालेत्यनर्थकपदैकदेशाभ्यां बालवकरणनामसूचनम् ॥

 शुभदायकौ लवणिमप्रभवौ ननु जननि तव विदितविभवौ । पादौ वितीर्णमोदौ श्रीदौ स्यातां ममाब्जदायादौ ॥ १७४४ ॥

 लवणिमा लावण्यं 'लवणिमगुणनाणीयस्तराम्भोधिवेणी' इति शृङ्गारतरङ्गिणीप्रयोगात् । अत्र दायकौ लवणिमेत्यनर्थकपदैकदेशाभ्यां कौलवकरणनामसूचनम् ॥

 हरिदर्शनसविकसनं हारि ममामोदि षट्पदोल्लसनम् । हृदयाब्मुजं शरण्या हयमुखदयितैतु ललितलावण्या ॥ १७४५ ॥

 हरेः भगवतः भानोश्च दर्शनेन सविकसनं उन्निद्रं उल्लासि च । हारि मनोहरं आमोदि प्रमोदवत् सुरभि च । उलसन्त्यस्मिन्नि-