पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
198
अलंकारमणिहारे

 यथावा--

 भजमनसागोपेता नियतर्षिगणाः पदोर्भजन्ते याम् । भृगुजगणजां यतीड्यां विद्यामविषमजयां सुगीतिमिमाम् ॥ १७३४ ॥

 अत्र लक्ष्मीवर्णनपरे पद्ये गीतिवृत्तपरतयाऽर्थान्तरमपि विवक्षितम् । तत्र लक्ष्मीपरत्वे एवमर्थः--नियतर्षिगणाः नियताः नियमितेन्द्रिया एकाग्रमनसा इति यावत् । एकान्तिन इति वा । ये ऋषिगणाः आगोऽपेताः आगसः अपराधात् अपेताः निरपराधास्सन्त इत्यर्थः । 'अपेतापोढ' इति पञ्चमीसमासः । यां श्रियं पदोः चरणयोः भजन्ते सेवन्ते । भृगुजगणजां भृगुजः भृगुनाम्नः ऋषेः जातः यो गणः धातृविधातृप्रभृतितत्पुत्रपौत्रप्रमुखस्संतानवर्गः तस्मिन् जातां प्रादुर्भूतां--

देवौ धातृविधातारौ भृगोः ख्यातिरसूयत ।
श्रियं च देवदेवस्य पत्नी नारायणस्य या ॥

 इति विष्णुपुराणोक्तेः । यतीड्यां यतिभिः मस्करिभिः ईड्यां स्तव्यां अविषमजयां अविषमः न्याय्यः सर्वसंप्रतिपन्न इति यावत् । जयः उत्कर्षो यस्यास्तां अतएव सुगीतिं गीयत इति गीतिः गानं शोभना गीतिः यस्यास्तां प्रशस्तकीर्तिमिति यावत् । इमां विद्यां आत्मविद्यां श्रियमित्यर्थः । 'आत्मविद्या च देवि त्वं विमुक्तिफलसाधनी । विद्यासहायवन्तं माम्' इत्यादिभिर्विद्याशब्देन श्रियोऽभिधानात् । विद्येत्यत्र कार्यकारणयोरभेदोपचारः । मनसा भज उपास्वेति कस्यचिद्गुरोः कंचिदन्तेवासिनं प्रत्यनुशासनम् ॥