पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अथावज्ञालंकारसरः (७२)


 न स्यातां यदि ते ताभ्यां साऽवज्ञालंकृतिर्भवेत् ॥

 ताभ्यां अन्यगुणदोषाभ्यां ते अन्यगुणदोषाधाने कस्यचिद्गुणेन कस्यचिद्गुणाधानं दोषेण दोषाधानं वा न स्यातां चेत् अवज्ञालंकारः ॥

 यथावा--

 करुणाजलधिरिति त्वां श्रितोऽस्मि करुणालवोऽपि मयि न कृतः । पापी गच्छतु जलधिं पादतलं वाऽप्यमुष्य नार्द्रं स्यात् ॥ १७१६ ॥

 अत्र भगवन्निष्ठाश्रितवत्सलत्वजलधिनिष्ठजलपौष्कल्यरूपगुणाभ्यां शरणागतपापिनोः कृपापादतलार्द्रतयोर्गुणयोरनाधानम् ॥ अत्र महावाक्यार्थो दृष्टान्तरूपः बिम्बप्रतिबिम्बवाक्यार्थाभ्यां अवज्ञारूपाभ्यां संकीर्णः ॥

 यथावा--

 अमृतमये निवसन्नपि सुमनोनिवहे जनो भवद्विमुखः । विशदत्वं नैति हरे शशधरबिम्बे चिरं कलङ्क इव ॥ १७१७ ॥

 अत्र विद्वन्निवहशशधरबिम्बयोरमृतमयत्वलक्षणगुणेन भगवद्विमुखकलङ्कयोर्विशदत्वरूपगुणस्यानाधानं श्लेषकृतसमानधर्मवदुपमासंकीर्णोऽयमिति पूर्वस्माद्विशेषः ॥