पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
6
अलङ्कारमणिहारे

अथ यथासंख्यालङ्कारसरः. (५२)


 उद्देशक्रमतोऽर्थानां संबन्धो यत्र कथ्यते । प्राञ्चस्तत्र यथासंख्यमपरे क्रममूचिरे ॥

 यथासंख्यमिति पदार्थानतिवृत्तिरूपे यथार्थेऽव्ययीभावः । संख्याया अनतिवृत्तिश्च आद्यस्याद्येनैव द्वितीयस्य द्वितीयेनैवेत्यादिक्रमेण संम्बन्धो भवतीति योगार्थ एवं लक्षणम । अन्ये एनं यथासंख्यं क्रमालङ्कार इति व्यवाहार्षुः । स च शाब्दः आर्थश्चेति द्विविधः । तत्रासमस्तानामसमस्तैः क्रमेणान्वये शाब्दः, क्रमिकसम्बन्धस्यातिरोहितत्वात् । यत्र तु समुदायद्वयस्य समासेनाभिधाने सति प्रथममेकस्य समुदायस्यापरेण समुदायेन सामान्यतस्समन्वये सति पश्चादर्थानुगमपर्यालोचनया तत्समुदायिनां क्रमेण संबन्धस्तत्रार्थः ॥

 यथा

 विष्णो विनतजनानां तृष्णां हृदयं सुखं च दुःखं च । प्रुष्णासि प्लुष्णासि च पुष्णासि वृषाद्रिनाथ मुष्णासि ॥ १४१८ ॥

 हे वृषाद्रिनाथ विष्णो ! विनतजनानां तृष्णां प्रुष्णासि पूरयसि । हृदयं प्लुष्णासि सेवसे । तत्र वससीत्यर्थः । स्वस्मिन् स्नेहयसीति वा । ‘प्रुष प्लुष स्नेहनसेवनपूरणेषु' इति क्रैयादिकाभ्यां धातुभ्यां लट् । सुखं पुष्णासि दुःखं मुष्णासि च