पृष्ठम्:Mudrarakshasa.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८२
मुद्राराक्षसे


 राजा-नन्दकुलविद्वेषिणा दैवे[१]न ।

 चाणक्य:-दैवमविद्वांसः प्रमाणयन्ति ।

 राजा-विद्वांसोऽप्यविकत्थना भवन्ति ।

 चाणक्यः-(स[२]कोपम् ।) वृषल, भृत्यमिव मामारोदुमिच्छसि । शिखां मोक्तुम् ब[३]द्धामपि पुनरयं धावति करः

( भूमौ पादं ग्र[४]हृत्य ।)

 ग्रतिज्ञामारोढुं पुनरपि च[५]लत्येष चरणः।
प्र[६]णाशानन्दानां प्रशममुपयातं त्वमधुना
परीतः कालेन ज्वलयसि म[७]म क्रोधदहनम् ॥ २९ ॥

 राजा--(सावेग[८]मात्मगतम् ।) अये, कथं सत्यमेवार्य: कुपितः। तथाहि ।


 नन्दकुलविद्वेषिणा दैवेनेति । एतदादि क्रोधसंरब्धयोरन्योन्याधिक्षेपो विरोधनम् ।

 आरोदुमिच्छसीति । अधिक्षेप्तुम् प्रवर्तसे इत्यर्थः ।

 शिखामिति । तीर्णप्रतिज्ञत्वाद्वङ्गमिष्टामपि न बभ्रामीत्यर्थः। शिखाया अद्यापि न बद्धत्वान्निर्वहणान्ते भेत्स्यमानत्वात्। ‘तीर्णप्रतिज्ञेन मया केवलं बध्यते शिखा ( ७। १७ ) इति वक्ष्यति ।

 प्रतिज्ञामारोढमिति । कालेन मृत्युना परीतः वशीकृत इवेति लुप्तोपमा न तु त्वं कालपरीतः चिरजीवित्वेन वर्धिष्णुत्वादिति भावः । अत्र वीरो रसः स्थायी क्रोधेनानुभावेन पाकल्यं नीतः ॥ २९ ॥

 अये कथं सत्यमेवार्यः कुपित इति । मया तदाज्ञयैव कार्यानुरोध कैतवेन कोपितोऽपीति शेषः ।


  1. B. E. N. add इदमनुष्ठितम्.
  2. Om. in M. R.; कोपं नाटयित्वा E.कोयं नाटयन् B. N; A. reads वृष simply for next word, after which B.N. G. add वृषल again; E. adds कथम्; अधि for आ in ‘आरोद्ध° E.
  3. E. has मम ;for अपिमुक्तामपि for बद्धमपि H
  4. भूत्य om. R. M; भूमौ पाद् मंहरं दत्वा. G. E. for B
  5. चलत्येव M do कृचा दत्व . N. . R.
  6. प्रणशनन्दा°.यान्तमू to यातम् R.
  7. पुनः B. N.
  8. स्व ¥or आम B. N. G; M. has simply सोद्वेगम्; तत् कथम् B. E. N; आर्यः after कुपितः B. N. before
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१७५&oldid=322704" इत्यस्माद् प्रतिप्राप्तम्