पृष्ठम्:Mudrarakshasa.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१४
मुद्राराक्षसे


तुम्हा[१]णं उत्तलाए दिसाए दक्खिणां दिसं पथिदाणं अदक्खिणे । णक्खत्ते। अवि अ[२] । (ख)

अत्थाहिमु[३]हे सूरे उदिए संपुण्णमण्डले चन्दे । ग[४]
मणं बुधस्स लग्गे उदिदथमिदे अ केदुभ्मि ॥ १९ ॥ (क)


न्द्र पौर्णमासी युष्माकमुत्तरस्या दिशो दक्षिणां दिशं प्रस्थितानां अदक्षिणनक्षत्रम् । अपि च ।

 (क ) अस्ताभिमुखे सूर्य उदिते संपूर्णमण्डले चन्द्रे ।
  गमनं बुधस्य लग्ने उदितास्तमिते च केतौ ॥ १९ ॥


त्वरया गन्तव्यमिति चेत्सायं सूर्येऽस्तमिते चन्द्रोदयसमये लग्नं मिथुनं बुधस्तस्याधिपतिः राहुः केतुर्वा तदा उदितास्तमितो भविष्यति । तस्मिबुधस्य लग्ने गमनं कर्तव्यमिति शेषः । राहुकेत्वोः खकारमेकं शरीरं तत्र शिरो राहुः पुच्छं केतुः शिरस्युदिते पुच्छमस्तमितं भवति । पुच्छ उदिते शिरोस्तमितमिति ज्योतिःशास्त्रसिद्धम् । उभयोरेकशरीरत्वाद्राहुरिति केतुरिति व्यपदेशः । अत उक्तमुदितास्तमिते केताविति । एवं च मिथुनं द्विस्वभावं धनुषि सप्तमकेन्द्रे स्थितेन कूरेणास्तमितेन सूर्येण दृष्टं केतुना पापग्रहेण च युक्तं प्रयाणेऽनिष्टम् । तथा चोक्तम्----- ’द्विमूर्तिराशावुदयं प्रपन्ने क्रूरग्रहैर्युक्तनिरीक्षिते च । प्रयाति यद्यप्यबुधस्तदा न निवर्तते शत्रुजनाभिभूतः ।।' इति । एवं संदिग्धे मुहूर्ते उक्ते । लग्ने इति । द्विस्वभावाप्रयाणे निषिद्धे मिथुनं यद्यपि दुर्जुनं तथापि बुधेन सौम्यग्रहेणाधिष्ठितं सत्सुलग्नं भवति तदा चन्द्रबलेन गच्छन् दीर्घा चिरेण भाविनीं सिद्धिं वक्ष्यसि । अतस्तत्र गन्तव्यमित्यस्य ग्रन्थ


  1. तुहाणम् E.उसराये P. which also reads दिशाये +or following word; N. A. have दिशाए; दक्षिणाम् B.; दक्किणम् N; दक्षिखण R; A. G. N. read दिशः °णं णक्खत M. R.N. has दक्षिणदुअलिकणक्कत्तम्; G. E. H.दक्खिणदुघालिके याक्खत्ते ( E. H, have u for के ); B. दक्षिण डुवलअ णक्खत्तओ
  2. Om P.; अपि च A.; अवि य E.
  3. भिक्षु° ED.; सूले B. E. N. G.;उइदे for अदिए N.; उदिवे B. E. G
  4. Om N.; गयणम् P.गयणे G.; मयणे E.; B. IE. N. G. read बृहस्स; लज्जे for लगे IE.A. R. om. द it following, C. N. read - for i; केदुहि for केदुस्मि P; गहवदिबुधश्श लग्गे H.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२०३&oldid=324939" इत्यस्माद् प्रतिप्राप्तम्