पृष्ठम्:Mudrarakshasa.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१०
मुद्राराक्षसे


मभियुञ्जानस्य शत्रुमभियोक्त्त्तु[१]रैकान्तिकी कार्यसिद्धिर्भवति ।

 राक्षसः-ऐका[२]न्तिीमेव कार्यसिद्धिमवगन्तुमर्हति कुमारः॥ कुतः ।

त्वय्युत्कृष्टघलेऽभियोक्तरि नृपे नन्दानुरक्ते पुरे
 चाणक्ये चलिताधिकारविमुखे मौर्य नवे राजनि ।

खाधीने मयि

( इत्य[३]र्द्धोक्ते लज्जां नाटयन् )

मार्गमात्रकथनव्यापारयोगोद्य[४]मे

 त्वद्वाञ्छा[५]न्तरितानि संप्रति विभो तिष्ठन्ति साध्यानि नः॥१५॥

 मलयकेतुः ---[६]यधेवमभियोगकालमार्यः पश्यति ततः किमास्यते । उतुङ्गास्तुङ्गकूलं श्रुतमदसलिलाः प्रस्यन्दि[७]सलिलं

 श्यामाः श्यामोपकण्ठद्रुममतिमुख[८]राः कल्लोलमुखरम् ।


शत्रुमभियोक्तु: अभिषेणयत इत्यर्थः । अन्येषु बहुषु कारणेषु सत्सु सचिवव्यसनमपि साधकं न केवलमिति भावः ।

 अन्यान्यप्युत्कृष्टबलादीनि कारणानि सन्तीत्याह-वयीति । स्वप्रशंसायां लज्जाप्रशंसामेव निहते । मार्गमात्रकथनव्यापार एव योगः उपायः तत्र उद्यमो यत्न यस्य सः । त्वद्वाञ्छेति । त्वदाज्ञां प्रतीक्षत इत्यर्थः ॥ १५॥

 उत्तुङ्गा इति । अत्र पुलुङ्गस्तुङ्गकूलमित्यादिसाधारणधर्मोंपाद्नाद्जपतीनां शोणसिन्धोश्चोपसा गया। शोणमिति श्लेषानुप्राणिता। अन्न स्रग्धरावृत्तस्य एकाक्षरमात्राद्वयस्य न्यूनतया प्रस्तारविशेषः ॥ १६ ॥


  1. °योक्तं नै°. G.; योक्तुनै B. EB. N. H; °योक्तुरे P; B. N. (C) E. om कार्यं.P. adds ने after सिद्धिः.
  2. ए° all except B. N.; B. E. N. G. H. omकार्य before सिद्धि. E. om. कुतः
  3. इत्यधक्तेन E; G. has नाष्टयति
  4. योग्यो°. B Ri G. E.
  5. स्वद्वाक्यान्त° ]B.सिद्धयन्ति for तिष्ठन्ति P.
  6. अमात्य before this B. N.; अयि E.ममात्य: for 'मयैः B. N. R., E.तत् for ततः B. BN;om, all ततः°स्यते; B N. add पश्य after आस्यते .
  7. प्रस्यन्द. P.; "°न्दिसलिलाः E.
  8. °ममविमु° E. ‘मलिमु° B. N. H.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१९९&oldid=324784" इत्यस्माद् प्रतिप्राप्तम्