पृष्ठम्:Mudrarakshasa.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११३
द्वितीयोऽङ्कः ।

                                         

( ततः प्रविशत्यासनस्थः[१] पुरुषेणानुगम्यमानः सचिन्तो राक्षसः ।)

 राक्षसः--([२]सबाष्पम् ।) कष्टं भोः, कष्टम् । 

वृष्णीनामिव नीतिविक्रमगुणव्यापारशान्तद्विषां
 नन्दानां विपुले कुलेऽकरुणया नीते नियत्या क्षयम् ।
चिन्तावेशसमाकुलेन मनसा रात्रिंदिवं जाग्रतः
 सैवेयं मम चित्रकर्मरचना भित्तिं विना वर्तते ॥ ४ ॥

 अथवा[३]

नेदं विस्मृतभक्तिना न विषयव्यासङ्ग[४]मूढात्मना
 प्राणप्रच्युतिभीरुणा न च मया नात्मप्रतिष्ठार्थिना[५]
अत्यर्थं परदास्यमेत्य निपुणं नीतौ मनो दीयते
 देवः स्वर्गगतोऽपि शात्रववधेना[६]राधितः स्यादिति ॥ ५ ॥


तस्य विगाहनस्य नीतिप्रयोगस्यास्मिन्नङ्के वक्ष्यमाणस्य सूचनात् । यद्वा अङ्कावतरणम्—‘यत्र स्यादुत्तराङ्कार्थः पूर्वाङ्कार्थानुसंगतः । असूचिताङ्गपात्रं तदङ्कावतरणं मतम् ॥' इति लक्षणात् । अत्र वक्ष्यमाणस्य क्षपणकशकटदासादिनिग्रहस्य पूर्वाङ्कार्थानुसंगतत्वादाहितुण्डिकप्रवेशस्यासूचनाच्च ।

 वृष्णीनामिति । नीतिविक्रमरूपौ गुणौ तयोर्व्यापारेण प्रयोगेण शान्ता गमिता ण्यर्थोऽन्तर्भावितः द्विपो यैरिति बहुत्र्वीहिः । अकरुणया नियत्या दैवेन । सैवेयं नन्देषु जीवत्सु यादृशी तादृश्येव चित्रकर्मरचना विचित्रपौरुषव्यापारः भित्तिमाश्रयं विना वर्त्तते स्वामिनो विनैव मुधा व्याप्रिय इति खेदः ॥ ४ ॥

 नेदमिति । विपयव्यासङ्गो विषयोपभोगप्रवणता । स्वर्गगतस्वाम्या- राधनेच्छया नीतौ मनो दीयते न पूर्वोक्तहेतुभिरित्यर्थः । इदं तत्त्वानु- कीर्त्तनं मार्गः ॥ ५ ॥


  1. स्वभवनगतः after this B.E.N.G; after अनुग° G; E. has सचिन्तः here before पु°.
  2. B.andE.add before this ऊध्र्वमवलोक्य.
  3. .om. in M.
  4. व्यापार for व्यासङ्ग in B.;रूढ for मूढ MSS.except B.E.N. G.P
  5. प्रतिष्ठेच्छुना R.M.
  6. °वधैरारा°.P.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/११४&oldid=321136" इत्यस्माद् प्रतिप्राप्तम्