पृष्ठम्:Mudrarakshasa.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३३
पञ्चमोऽङ्कः।

 मलयकेतुः-(उ[१]पसृत्य । )

 श्रुतं सखे श्रवणविदारणं वचः
  सुहृन्मुखाद्रि[२]पुमधिक्रुत्य भाषितम् ।
 पितुर्वधव्यसनमिदं हि येन मे
  चिरादपि द्विगुणमि[३]वाद्य वर्द्धते ॥ ६ ॥

 क्षपणकः-( स्वगतम् ।) अये, श्रुतं मलयकेतुहतकेन । ह[४]न्त कृतार्थोऽस्मि[५]।( इति निष्क्रान्तः ।)

 मलयकेतुः-( प्रत्यक्षवदाकाशे लक्ष्यं बद्धा।) राक्षस [६]राक्षस, युक्तं यु[७]क्तम् ।

मित्रं म[८]मेदमिति निर्व्रुतचित्तव्रुत्तिं
 विश्रम्भतस्त्वयि निवेशितसर्वका[९]र्यम् ।


 श्रुतमिति । चिरादपि चिराज्जातमपि अद्य जातमिव द्विगुणं वर्धत इत्यर्थः।

 कृतार्थोऽस्मीति । तेनेदानीं महत्प्रयोजनमनुष्ठेयं भविष्यतीति पूर्वोक्तमहाप्रयोजनानुष्ठानेन कृतार्थोऽस्मीत्यर्थः । सुहृन्मुखाद्रिपुमधिकृत्येत्यनेन स्वस्य स्रुह्र्त्त्वेन विश्वास्यवचनत्वं राक्षसस्य रिपुस्वं च मलयकेतुन मनसि दृढीकृतमिति च कृतार्थता । इदं बीजानुगुणकार्यप्रख्यापननिर्णयः ॥ ६ ॥

 मित्रं ममेदमिति अनेन ज्ञायते राक्षसपर्वतकयोः पूर्व महत्सौहृदमासीत् । अनन्तरं चणक्येन राज्यार्धदानपरिपणनप्रलोभनेन राक्षसाद्विभेद्य स्वकार्यसिद्धये पर्वतकः सहायत्वेन प्रवणीकृत इति । तथा चानुपदमेव


  1. Om. B. N. G; E. has सास्त्र instead.
  2. P. reads °दिद° for °द्विपु
  3. G has ‘मिहाद्य वर्तते.
  4. Om A.P.B.N; AN. reads before this अये सुदं मलयकेतुहदए; G. agrees and E. too reading °गेण for °gण.
  5. कृतार्थक्ष्चाणक्यः E.;कृतार्थः कौटिम्यः H.; A.P.R. add सभयम् before निष्क्रान्तः;G.सभायाम्;E.adds क्षपणकः after नि
  6. B. N. R. om. one राक्षस.
  7. B. N. E. read इदम् for युक्तम्; R. G. have युक्तम् once only
  8. °ममायमि° B. N. H.
    तिः for °तं. B. E.
  9. °र्यः B. E.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२२२&oldid=325955" इत्यस्माद् प्रतिप्राप्तम्