पृष्ठम्:Mudrarakshasa.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२
मुद्राराक्षसे


 आहितुण्डिकः--(नाट्येनोपसृत्य[१] विलोक्य च स्वगतम् । संस्कृतमाश्रित्य ।) अ[२]यममात्यराक्षसः । स एषः

वामां बाहुलतां निवेश्य शिथिलं[३] कण्ठे निवृत्तानना
 स्कन्धे दक्षिणया बलान्निहितयाप्यज्ञे पतन्त्या मुहुः ।
गाढालिङ्गनसङ्गपीडितमु[४]खं यस्योद्यमाशङ्किनी
 मौर्यस्योरसि नाधुनापि कुरुते वामेतरं श्रीः स्तनम् ॥ १२ ॥
 ( प्रकाशम् ।) जेदु अमच्चो[५] ( क )

 राक्षसः-( विलोक्य ।) अये विराध[६]- ( इत्यधक्ते।) ननु


 ( क ) जयतु अमात्यः ।


 वामामिति । अनुरागबलात्स्कन्धे निहितयापि यदुद्यसभयान्मुहुरले पतन्त्या दक्षिणया बाहुलतयोपलक्षिता इति शेषः । गाढालिङ्गनसङ्गनास त्या पीडितमुखं चिपिटीकृतचूचुकं यथा तथा चन्द्रगुप्तेऽत्यन्तमनुरक्तापि राक्षसोद्यमाशङ्किनी सती स्वाभिलषितं गाढालिङ्गनरूपमुपभोगं न संपादयतीति संभोगाभिलाषः यङ्गारः । अत्र गाढालिङ्गनाकरणस्य यदुद्यमाशङ्गित्वेन समर्थनत्काव्यलिङ्गमलंकारः । ‘समर्थनीयस्यार्थस्य काव्यलिङ्क समर्थनम्’ इति लक्षणात् ।

 अये विराध इति परिजनं प्रति रहस्यगोपनार्थमद्धोक्तिः । प्ररूढश्मश्रु-


  1. ‘सृत्याच° B. E; G. on. च and G. E. have आत्म for स्व omitting संस्कृ०-°त्य; B. also om. this; A. P. have it before स्व°; R. om. च स्व
  2. G. E. B. add अये before अयम्; B. B. add तिष्ठति । संस्कृतमाश्रित्य after राक्षसःN. only adds तिष्ठति; R. and M. have य एषः £or स एषः; G. omits it and IE has यः स एषः.
  3. शिथिलां B.; विद्यु'. B. H; ववृ°G.
  4. सुखं E.; जयद B.
  5. जअइ जअटु अमच्चो B.; जयदु २ देवो अ . G; जयदु २ अब्ज़ after जयदु अज़ अमच्चों N; A. has जेडुअतो.
  6. M. and N. add गुप्त after this; P. om. नु in ननु and has स्स for श्म in श्मश्रुः B, after °ते has विरूढस्मृतिः; G. विरूढस्सश्रो; E. विरूढस्मदुःN. विरुवमत्. All other Mss read प्ररूढश्मश्रुःH. reads विरूढश्मश्रुः
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१२३&oldid=321262" इत्यस्माद् प्रतिप्राप्तम्