पृष्ठम्:Mudrarakshasa.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२१
द्वितीयोऽन्कः ।


 राक्षसः-( प[१]त्रं गृहीत्वा वाचयति ।)

पाऊण[२] निरवसेसं कुसुमरसं अत्तणो कुसलदाए ।
जं उगिरेइ[३] भमरो अण्णाणं कुणइ तं कफं ॥ ११ ॥ ( क )

 (विचिन्त्य[४] स्वगतम् । )अये, कुसुमपुरवट्वृत्तान्तज्ञो भवत्प्रणिधिरिति गाथार्थः। कार्यव्यग्रत्वान्मनसः प्रभूतत्वांच्च प्रणिधीनां विस्मृतम् । इदानीं स्मृतिरुपलब्धा । व्यक्तमाहितुण्डिकच्छद्मना विराधगुप्ते[५]नानेन भवितव्यम् । (प्रकाशम् ।) प्रियंवदक, प्रवेशयैनम्। सुकविरेषः। श्रोतव्यमस्मात्सुभाषितम् ।

प्रियंवदकः---- तथा[६]। ( इत्याहितुण्डिकमुपसृत्य ।) उपसप्पदु अज्जो । (ख )


 (कं) पीत्वा निरवशेषं कुसुमरसमात्मनः कुशलतया । यंदुंद्भिरति भ्रमरः अन्येषां करोति तत्कार्यम् ॥

 (ख) उपसर्पतु आर्यः ।


 अये, कुसुमपुरवुत्तान्तग्न इति । इयं संचिन्तितार्थप्राप्तिः क्रमः । पूर्वं द्वारि कस्तिष्ठतीति कुसुमपुरवृत्तान्तहरचारगमनस्य संचिन्तितस्य प्राप्तेः।

कार्यव्यश्ग्रत्वादिति । इष्टजनानुसंधानरूपमधिबलमङ्गम् ।
व्यक्तमाहितुण्डिकेति । इदं लिङ्गदभ्यूहनमनुमानमङ्गम् ।


  1. पत्रक E. After ग्रुहीत्वा E. adds स्वगतम्.
  2. पाउण B. M. E; पातुण P.;
    कौसुम° M.
  3. उग्गिरदी B; अग्गिरंति E. ( भमरा ); G. has ज्ज for जं preceding this. B. E. N. G. have तं before अण्णाणं and not before कज्जं; ति for इ in कुणइ A. P.; यि G.
  4. B. G, have राक्षस for this; E. om. this and next word; M. R. read आत्म for स्व; N. has राक्ष°। अये कुसुमरखश् । आँ ततो भवत्प्रणिधिरिति गाथार्थः; B. E. G. add अहम् after °ज्नो and G. has स्वत् for भवत्; B. E. G. add a च before इति. E. N. add आ before कार्य°; B. आः.
  5. B. has before this कुसुमपुरादागतेन; G. om. अनेन after this.
  6. B. E. N. G. read जं अज्जो (G. देवो; E. अमच्चो ) आणवेदिति (इति G. N.) निष्क्रम्य ( निः क्र° G. N.; omitted in B.) आहि° । (सष्पतु in G.)
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१२२&oldid=321261" इत्यस्माद् प्रतिप्राप्तम्