पृष्ठम्:Mudrarakshasa.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८१
तृतीयोऽङ्कः ।


अपि च ।
गृध्रै[१]राबध्दचक्रम् वियति विचलितैर्दीर्घनिष्कम्पपक्षै-
 र्धूमैर्ध्वस्तार्कमासां सघनमिव दिशां मण्डलं द[२]र्शयन्तः ।
नन्दैरा[३]नन्दयन्तः पितृवननिलयान्प्राणिनः पश्य चैता
 न्निर्वान्त्यद्यापि नै[४]ते खुतबहलवसावाहिनो हव्यवाहाः ॥ २८ ॥

 राजा-अन्येनैवेदमनुष्ठितम् ।

 चाणक्यः-[५]आः, केन ।


णामुत्सादनाय कालविलम्बात्प्रतिज्ञाया दीर्घत्वमीदृशीमुग्रां प्रतिज्ञामारुह्य कृत्वा केनान्येन नन्दा: पर्यायभूता एकस्यां तस्यां दामनिबद्धाः पशव इव क्रमेण हता इत्यन्वयः । पश्यतो राक्षसस्य पश्यन्तं राक्षससनादृत्येत्यर्थः । ‘षष्ठी चानादरे’ इति षष्ठी ॥ २७ ॥

 गृध्रैरिति । वियति आबद्धचक्रम् विरचितमण्डलं यथा तथा विचलितैर्दीर्घा निःकम्पाः पक्षा येषां तैर्गुघ्रैरेव धूमैरिति व्यस्तरूपकम् । चिताग्नीनां ज्वलदङ्गारमात्रशेषतया सहजधूमाभावात् गृध्रा एव धूमत्वेन निरूपिताः । तैर्गुघ्रधूमैर्घ्वस्तार्कभासां तिरोहितसूर्यतेजसां दिशां मण्डलं सघनमिव मेघमण्डलप्रच्छादितमिवेत्युत्प्रेक्षा । दर्शयन्तः बहलवसावशेषैनैन्दैः श्मशाननिलयान्प्रेतवृकादीन् एतान्प्राणिनः प्रीणयन्तः एते परितः श्मशानेषु दृश्यमाना हव्यवाह अद्यापि न निर्वान्ति न शाम्यन्ति । पश्य चेति वाक्यार्थः कर्म । अतिक्रान्तेऽपि विषये रोषावेशवशादेतानेत इति च बुद्धौ प्रत्यक्षीकृत्य निर्देशः । नन्दकुलनिर्दहनक्रोधोऽद्यापि न शान्त इत्यर्थः । अयं वधरूपो विद्रव: ॥ २८ ॥

 आः केनेति । इयं तर्जनरूपा ध्युति: ।


  1. ‘रब्ध for °बद्ध. M.; चिचरितैः for विचलितैः M.विचलितोद्दी° A.; चलतया G; चलनया B. N.; वलनया H.
  2. तैर्धयन्तः M.
  3. For नन्दैरा° B. E. N. G H. have नन्दनाम्; M. has °नाय° for °नन्द°; चैते for चैतान् G; चैत्या: H.
  4. तेन P; गन्धिनो for चाहिनो H. From प्रतिज्ञाम् in the second line of the preceding stanza down to this all is wanting in E; बहुल for बहल M.. R
  5. om. in B. JB. N. G.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१७२&oldid=322198" इत्यस्माद् प्रतिप्राप्तम्