पृष्ठम्:Mudrarakshasa.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८०
मुद्राराक्षसे


 चाणक्यः-( विहस्य ।) ए[१]तत्कृतं राक्षसेन । वृषल, मया पुनर्ज्ञातम् नन्दमिव भ[२]वन्तमुध्द्रुत्य भवानिव भूतले मलयकेतू राजाधिरा जपदे नि[३]योजित इति ।

 राजा–अ[४]न्येनैवेदमनुष्ठितं किमत्रार्यस्य ।

 चाणक्य:--हे[५] मत्सरिन्,

आरुह्यारूढकोपस्फुरणविषमि[६]ताग्राङ्गुलीमुक्तचूडां
 लोकप्रत्यक्षमुग्रां सकलरिपुकुलो[७]त्साददीर्घा प्रतिज्ञाम् ।
केनान्येनावलिप्ता नवनवतिशतद्रव्यकोटीश्वरास्ते
नन्दाः पर्याय[८]भूताः पशव इव हताः पश्यतो राक्षसस्य ॥ २७ ॥


यणप्रभृतिषु स्वेषु वर्गेषु न विश्वसन्ति यतो वयं तानपि पुरान्निःसारितवन्त इत्यहो मतिमानतिशुर: साहसी महात्मा राक्षस इति ॥ २६ ॥

 विहस्येत्यादि । इदं राक्षसनीतिविभवाधिक्षेपार्थं सोत्प्रासवचनं स्वशक्तिप्रशंसनं व्यवसायः । नन्दोद्धरणमौर्याधिराज्यस्थापनहेतोः स्वशक्तेः प्रशंसनात् ।

 अन्येनैवेदमिति । इदं नन्दोद्धरणमित्यर्थः । इयं गुरुतिरस्कृतिर्द्रवः ।

 हे मत्सरिन्निति । मत्सरः परोत्कर्षासहनम् ।

 आरुह्यारूढेति । प्रवृध्दकोपावेशेन विषमिताभिर्वेिसंष्ठुलम् प्रचलिताभिरग्नाअङगुलीभिराङगुल्यगैर्मुक्तंचूडा शिखा यस्याम् । सकलानां रिपू-


  1. वृषल before this B. E. N. G. Before वृषल further on B. B. N.have a speech राजा । अथ किम् । एतत्कृतममात्यराक्षसेन (D. on. अथ किम् ) om. वृषल and inserts न after पुनः further on.
  2. °सुत्कृत्य for मुध्द्रुत्य E.; E. has पदम् and om. final इति
  3. G. N. (s) read योजितः for नियो°; A. P. D. read °तुरधिराज्यपदे; B. N. (c) year तुरधिराज्यमारोपितः.
  4. अनेनै° ANअलमुपालभ्य आर्य दैवेनेदम् &&e, M. after कि-स्य_adds इयं . B. . read गुरुरस्मृति:; R. इयं गुरुतिरस्कृतिः.
  5. अहो M. R.
  6. For विषमिता' M. reads मिवकरा°
  7. °च्छे° for ‘त्सा' B. E. N.; ‘त्से’ A.
  8. सूरा for भूताः G.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१७१&oldid=322100" इत्यस्माद् प्रतिप्राप्तम्