पृष्ठम्:Mudrarakshasa.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३७
पञ्चमोऽङ्कः ।

 भागुरायणः- भ [१]द्र, तत्किमगृहीतमुद्रः कटकान्निष्ॠामसि ।

 सिद्धार्थकः-अज्ज,कज्जगोर[२]वेण तुवराविदोहिा। (क)

 भागुराथणः--कीदृशं तत्कार्यगौरवं यद्राजशासनमुल्ल [३] ङ्घयति ।

 मलयकेतुः-स[४]खे भागुरायण, लेखमपनय ।

 भानुरायणः--( सिद्धार्थकहस्ता[५] दॄहीत्वा पत्रमुद्रां दृष्टा।) कुमार,अयं लेखः । [६]राक्षसनामाङ्कितेयं मुद्रा ।

 मलयकेतुः-मुद्रां परिपा[७]लयन्नुद्धाट्य दर्शय ।

( भागुरायणस्तथा कृत्वा दर्शयति ।)

 मलयकेतुः-( वा[८] चयति ।) स्वस्ति यथास्थानं कुतोऽपि कोऽपि कमपि पुरुषविशेषमवगमय[९]ति । अस्मत्प्रतिपक्षं निराकृत्य दर्शिता कापि स[१०]त्यता सत्यवादिना । सांप्रतमेतेषामपि प्रथममुपन्यस्तसंधी-


 (क) आर्य, कार्यगौरवेण त्वरायितोऽस्मि ।


 मुद्रां परिपालयन्निति लेखस्य धारणपेटिकायाश्च मुद्रापरिपालनं राक्षसमुद्रया सह संवाददर्शनार्थम् ।

 स्वस्ति यथेति । अस्मत्प्रतिपक्षस्य चाणक्यस्य निराकरणं पूर्वमेव त्वया प्रतिज्ञातमासीत् ।


  1. Om. P, ॰त्किमर्थमगृ° B. E. N. G, त्किंं न गृ° P;कटान्नि° G.
  2. गौर° E. G; तुराविदो for तुवरा° N; ‘हिा तुवराइदो B. E. (वि for इ ); G. has तुरवामो.
  3. °यसि B.
  4. M. om. स ...ण; E. om. सखे; मुपान° for 'मपन° B. N.; सपनीय G; B. N. add after this सिद्धा' । भागुरायणाय लेखमर्पयति .
  5. B. E. N. read लेखं before गृही॰'; B. E. N. om. पत्र
  6. साङ्केयं E.
  7. °न्नुदूेश्य G.न्नुदूेष्यृ E,
  8. B. N. add गृहीत्वा before this; G. om. this; स्थाने forस्थानं B.E.N. G; कृतोऽपि om. in E.
  9. P. adds यथा here; °स्मदिूपक्षं for °स्मत्प्र तिपक्षं B; B. E. G. om. कापि.
  10. N. and P. om. सत्यता; B. reads सत्यवादितां सत्यवता; E. agrees omitting सत्यवता; B. N. read एषाम् for एतेषाम्.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२२६&oldid=326389" इत्यस्माद् प्रतिप्राप्तम्