पृष्ठम्:Mudrarakshasa.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१७
चतुथाऽङ्कः ।


( इ[१]ति निष्क्रान्तः क्षपणकः ।)

-  राक्षसः -प्रियंवदक, ज्ञा[२]यतां का वेला वर्तत इति ।

 प्रियंबकः —अ[३]त्थाहिलासी भअवं सुरो। (क)

 राक्षसः --(उ[४]थाय विलोक्य ।) अये, अस्ताभिलाषी भ[५]गचान्भास्करः। संप्रति हि ।

आविर्भू[६]तानुरागाः क्षणयुदयगिरेरुजिहानस्य भानोः
 [७]र्णच्छायैः पुरस्तादुपवनतरखो दूरमाश्वेव गत्वा ।


 ( क ) अस्ताभिलाषी भगवान्सूर्यः ।


 शूर इति । शूरो मलयकेतुरतोन्मुखः शूरो राक्षसश्चार्थाभिलाषी इति चोपश्रुतिध्दैनिता ।

उक्तमेव दुरुपश्रुतिमन्यथयति--भास्कर इति ।

आविर्भूतानुरागा इति । उज्जिहानस्योद्यमानस्य पर्णच्छायैः पर्णच्छायारूपेण । इत्थंभावे तृतीया । ‘छायाबाहुल्ये’ इति नपुंसकत्वम् । पुरस्तात्पुरोभागे पुरोगामिसेवकवत् । आशु शीघ्रमेव गत्वा पूर्वाहे वृक्षच्छायाः प्रत्यक्प्रसरन्तीति भानोः पुरोगामिभृत्यत्वेनोत्प्रेक्षिताः पश्चापराहे


  1. G. om This and क्षप°
  2. Om M. R; om. इति A. P.
  3. M. R. have अमच्च before this, B. N. have जं अमच्चो आणवेदिति निष्क्रम्य पुनः प्रविश्य;G. has निष्क्रम्य पुनः प्रविश्य । अमच; E. agrees with B. but after प्रविश्य adds पुरुषः । अय्य; E. reads आस्थभील°A. अस्थाहिला'. For what follows E reads भयवसात्ति; B. N. read सूले for ' सूरो.
  4. B. E, N. G. have आसनात् before this and B. E. N. M. have च afterविलोक्यः
  5. B. reads सहस्रदीधितिः। तथाहि, E. भास्कर इति तथाहि.
  6. रागः B. E. N.
  7. पत्र B.E. N.; पूर्ण. R; दुपनततरच for दुपवनतरवो M. R.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२०६&oldid=325047" इत्यस्माद् प्रतिप्राप्तम्