पृष्ठम्:Mudrarakshasa.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२८
मुद्राराक्षसे


ष्टेनेव[१] सुचिरं दारुवर्मणो दाक्ष्यं प्रशस्याभिहितम्-‘अचिरादस्यदाक्ष्यस्यानुरूपं फल[२]मधिगमिष्यसि दारुवर्मन् ।

 रक्षसः-( सोद्वेगम् ।) सखे, ‘कुतश्चाणक्यबटोः परितोषः। अफलमनिष्टफलं वा दारुवर्मणः प्रयत्नम[३] वगच्छामि । यदनेन बुद्धिमोहादथवा राजभक्तिंप्रकर्षान्नि[४]योगकालमप्रतीक्षमाणेन जनितश्चाणक्यबटोश्र्चेतसि बलवा[५]न्विकल्पः । ततस्ततः ।

 विराधगुसः -ततश्चाणक्यहतकेनानुकूललग्नवशाद[६]र्द्वरात्रसमये चन्द्रगुप्तस्य नन्दभवनप्रवेशो भविष्यतीति शिल्पिनः पौरांश्र्च गृहीतार्थान् कृत्वा तस्मिन्नेव क्षणे पर्वतेश्वरभ्रातरं वैरोचकमेकासने चन्द्रगुप्तेन सहोपवेश्य कृतः पृथ्वीरा[७]ज्यविभागः ।


न्तरे संस्कार इति । तीक्ष्णरसदानशयनगृहशयितहननादिरूप इति गूढोऽभिसंधिः ।

 अनुरूपं फलं वधरूपं फलमिति गूढम् ।

 राजभत्त्कीति । राज्ञि सर्वार्थसिद्धौ भक्तिप्रकर्षः वैरिनिधनेन भक्त्यतिशयप्रदर्शनम् । अयमपकारिजनाद्भयमुद्वेगः ।

 तंतश्चाणक्यगहतकेनेत्यादि । इदं चाणक्यस्येष्टार्थोपायनुसरणमाक्षेपों नामान्त्यमङ्गम् ।


  1. B. G. E. H. om. इव; B. E. N. G. read सुचिरम् after दारुवर्मणः (P. reading रुचि° £or दुचि°); E. om. दोरु°; G. has दारुवर्माणम्.; अभिनन्द्य.B. N.;अभिप्रशस्य G; E. adds इति after दाक्ष्यम्.
  2. फलं before अनुरूपम् P; G and E have दारुवर्मन् before फल; N. before आधिगं; M. R. E. add इति at the end of the sentence. दारुवर्माधिगमिष्यतीति H.
  3. °मधिग°. A. P.
  4. राजप्रकर्ष नयता कालमप्रतीक्ष्यमाणे &c.. G; प्रकर्पे नियता अभियोगकालमप्रतीच्छमानेन ज° &c. E; प्रकर्षत्या वा कालमप्रतीक्ष्यमाणेन ज° N; B. agrees with text heading संजनितः for जनितः.
  5. महान् A.P;R. om. one ततः
  6. B. adds अद्य before अर्द्ध.
  7. R. has पृथक् for पृथ्वी; G. has राज्यप्रविभागः; E. राज्यार्द्धप्रविभागः; N. पृथिवीराज्यार्द्धभागः; B. पृथ्वीराज्यार्धभागः.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१२९&oldid=321312" इत्यस्माद् प्रतिप्राप्तम्