पृष्ठम्:Mudrarakshasa.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११८
मुद्राराक्षसे


 कञ्चुकी-अ[१]मात्ये नेतरि सुलभमेतत्कुमारस्य । तत्प्रतिमान्य[२]तां कुमारस्य प्रथमः प्रणयः ।

 राक्षसः [३]आर्य कुमार इवानतिक्रमणीयवचनो भवानपि । तदनुष्ठीय[४]ते कुमारस्याज्ञा ।

 कञ्चुकी ( नाट्येन [५]भूषणानि परिधाप्य ।) खस्ति भवते । सा[६] धयाम्यहम् ।

 राक्षसः ---आर्य, अभिवाद[७]ये ।

(कबुकी निष्क्रान्त[८]: )

 राक्षसः-प्रियं[९]वदक, ज्ञायतां कोऽमद्दर्शनार्थी द्वारि तिष्ठतीति ।

 पु[१०]रुषः-जं अमच्चो आणवेदि न्ति । (परिक्रम्य आहितुण्डिकं द्दष्ट्वा[११] ।) अज्ज, को तुमम् । (क)


( क ) यदमात्स्य आज्ञापयतीति । आर्य, कस्त्वम् ।


 साधयामीति । प्रायेण ण्यन्तकः साधिर्गमेरर्थे प्रयुज्यते ।

 निष्क्रान्त इति । इदं प्रस्तुतोपयोगि समाधानवचनं संग्रहः । प्रस्तुतस्य राक्षसस्योत्साहस्योपयोगित्वात् । यद्वा प्रस्तुतस्य चाणक्योपायरूपस्य वीजस्योपयोगि इदं भूपणदानं समाधानवचनम् । अनुपदमेव राक्षसेन सिद्धार्थकाय पारितोषिकतया दारयमानानामेषामेव भूषणानां निर्वहणे कूटलेखे उपयोक्ष्यमाणत्वात् ।


  1. . and E. add अमात्य before this; N. substitutes it for असाये N. E, B. add त्वयि after this; E. Reads नेतर°; G. नेतद° for the नेतरि which follow; G. E. read कुमारेण for कुमारस्यः
  2. परिषण्यतां G;प्रथमः om. in G; M. only om. the visarga.
  3. om. in R.इव नाति° M. R.; वदनति G; R. G. M. add मे before भवानपि .
  4. थ्यताम् E; कुमाराज्ञ G. for next Word.
  5. आभरणनि M; संधार्थ for परिधष्य E.
  6. G.om.साध-हम्
  7. बादयाम्यहम् G.
  8. Before कड़की in G; B has क° स्त्रनियोगं साधयाम्यहमिति सत्कृतो निष्कान्तः.
  9. G. Om. क; B. has कोयमस्मद्द°; M. R. कोम६° द्वारे; B.E. G.M. n. इति after तिष्टति.
  10. B. R. M. have प्रियं. for thus throughout ; अज्ञ B. E. N. अमज़ो R., देवो G; ‘दि इति G ,दीति P.; B. omति; E. has पुरुषः before परिक्रम्य. for which B. E. N. G. read निष्क्रम्य.
  11. प्रति द्दष्ट्वा G; B. and N. add ऍ before अजा and G. Peads भद्र for अज.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/११९&oldid=321211" इत्यस्माद् प्रतिप्राप्तम्