पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
476
अलंकारमणिहारे

लोकेभ्यो ज्यायानपि 'एष म आत्माऽन्तर्हृदये ज्यायान् पृथिव्याः’ इत्यारभ्य ‘ज्यायानेभ्यो लोकेभ्यः' इति शाण्डिल्यविद्योक्तप्रकारेण सकललोकाधिकवैपुल्यमानपीति भावः । परमात्मा माति । इदं पूर्वोदाहरणादविलक्षणार्थम् । उदाहृतश्रुतिप्रत्यभिज्ञापनं विशेषः ॥

 यथावा--

 अणुरात्मेति कथं वा भणति श्रुतिरत्र संशयोऽस्माकम् । अगणितमहिमास्य यतो निगदति सैवान्तरं परं ब्रह्म ॥ १३६६ ॥

 आत्मा प्रत्यगात्मा अणुः इति श्रुतिः 'एषोऽणुरात्मा' इत्यादिश्रुतिः कथं वा भणति, यतः अगणितः गणनाया अगोचरः महिमा महत्त्वं यस्य तत् परं ब्रह्म स्वरूपतो गुणैश्च निरतिशयबृहदिति भावः । अस्य प्रत्यगात्मनः अन्तरं अन्तःस्थितम् । सैव श्रुतिरेव ‘य अत्मानमन्तरः' इत्यादिरिति भावः निगदति । यद्यप्यत्रोदाहरणेषु चेतःप्रत्यगात्मनोरेवाधारभूतयोः प्रशंसा क्रियते, तथाऽपि तनुत्वेन सिद्धयोश्चेतःप्रत्यगात्मनोः सकलजगन्निवासभूतात्सर्वलोकज्यायसो महामहिम्नः परब्रह्मणोऽप्यधिकत्वेनाधिकरणतां कल्पयित्वैव प्रशंसा क्रियत इति तत्प्रशंसाप्रस्तुतपरब्रह्मप्रशंसायामेव पर्यवस्यतीति ध्येयम् ॥

इत्यलङ्कारमणिहारे अधिकालङ्कारसरस्त्रयश्चत्वारिंशः.


अथाल्पालङ्कारसरः (४४)

आधारसौक्ष्म्यमाधेयात्सूक्ष्मादल्पं तदुच्यते ॥