पृष्ठम्:Mudrarakshasa.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१२
मुद्राराक्षसे

 राक्षसः-(आत्म[१]गतम् । अनिमित्तं सूचयित्वा ) कथं प्रथममेव क्षपणक:[२]

 पुरुषः—जीवसिद्धी[३] । (क)

 राक्षसः--(प्रकाश[४]म् ) अबीभत्सदर्शनं कृत्वा प्रवेशय ।

 पुरुषः-तह[५] । (इति निष्क्रान्तः ।) (ख)

( प्रवि[६]श्य )

क्षपणकः--

सासण[७]मलिहन्ताणं पडिवज्जह मोहवाहिज्जाणं ।
जे मुत्तमा[८]त्तकडुअं पच्छा पत्थं उवदिसन्ति ॥ १८ ॥ (ग)


 ( क ) जीवसिद्धिः ।

 ( ख ) तथा ।

 (ग) शासनमर्हतां प्रतिपद्यध्वं मोहव्याधिवैद्यानाम् ।

  ये मुहूर्तमात्रकटुकं पश्चात्पथ्यमुपदिशन्ति ॥ १८ ॥


 जीवसिद्दीति। प्रथमं क्षपणकसामान्यबुद्धया दुर्निमित्तविचिकित्सा । पश्चाज्जीवसिद्धिं ज्ञात्वा प्रस्थानमुहूर्तप्रस्तावार्थं प्रवेशानुमतिः । किंचादौ क्षपणक इति दुरुपश्रुत्या राक्षसस्य प्रकृतनीतितन्त्रव्याकोपः सूचितः । पश्चाज्जीवसिद्धिरिति सूपश्रुत्या मलयकेतौ हन्तुमुद्युक्तेऽपि भगुरायणनयोपायेनास्य जीवनसिद्धिश्च सूचितेति द्रष्टव्यम् ।

 सासण इति । केशोल्लुञ्चनतप्तशिलाधिरोहणादितीक्ष्णतपसा मोक्ष


  1. Om A. P; स्वग° B. N.
  2. °णकदर्शनम् B. N.
  3. सिद्धिः G. E.
  4. Om. M. R. G. E;A. P. G. add भद्रafter this; कारथित्वा for कृत्वा. B. N.;च्रुत्वा. G. which has also वेषम् for दर्शनम्.
  5. G. has तथेति; B. E. N. H. read जं अमच्चो आणवेदि; E. has त्ति for इति.
  6. ततः प्रविशति B. E. N. G.
  7. सासह° N. (s); ससन°. G.; सासंमलहन्ता° E.;पासण°(?) A.; वडि° for पडि R.;परि° P.; वज्जदध G.; विज्जा for वेज्ज़ा G; विविज्जा° E.; विज्ञानम् N
  8. G. has वा after जे; M. reads मुहुत्तमेत्तकडुअम्; . मुहृत्तकडुअम्.; R. N.मुहमेतकडुअम्; B. H. पढममेत्तंकडुअमू.; E. पढममत्तकडुयम् for पच्छा P. R; पस्या E; R.; पच्छम्- G.; उपदिसन्ति A.;उवदिसन्दि.B .M. R.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२०१&oldid=324921" इत्यस्माद् प्रतिप्राप्तम्