पृष्ठम्:Mudrarakshasa.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५२
मुद्राराक्षसे


 [१]अन्यच्च । कृतककलहं कृत्वा स्वतन्त्रेण किंचित्कालान्तरं व्यवहर्त्तव्यमित्यार्यादे[२] शः । स च कथमपि मया पातकमिवाभ्युपगतः। अथ वा शश्वदार्योपदेशसंस्क्रियमाणमतथः[३] सदैव स्वतन्त्रा चयम् । कुतः ।

इह विर[४]चयन्साध्वीं शिष्यः क्रियां न निवार्यते
 त्यजति तु यदा[५] मार्गं मोहात्तदा गुरुरङ्कशः।
विनयरुचयस्तस्मात्सन्तः सदैव निरङ्कुंशाः
 [६]रतरमतः स्वातंत्र्येभ्यो वयं हि पराङ्ञुखाः ॥ ६ ॥


 आर्योपदेश इति । आर्योपदेशेन संस्क्रियमाणमतयः शिक्ष्यमाणा इत्यर्थः ॥

 इह विरचयन्निति । साध्वाचारः शिष्यः गुरुभिर्न नियम्यते अपि त्वनुमोद्यते । त्यक्तसन्मार्गस्य गुरुरङ्कुशः शिक्षकः । विनये गुरुकृतशिक्षणे रुचिर्येपां ते सदाचारास्तु सदा निरङ्कुशाः स्वतन्त्रा एव वयम् । हिशब्दस्त्वर्थ उक्तवैलक्षण्यद्योतकः। एवं स्वातन्त्र्ये सिद्धेऽपि वयं त्वत एभ्यः। पञ्चम्यास्तसिल् । उक्तविधेभ्यः कंचित्कालं स्वातन्त्र्येण व्यवहर्तव्यमित्यादिप्टेभ्यः स्वातन्त्र्येभ्यः परतरमत्यन्तपराङ्भुखाः सर्वथा ईदृशं स्वातन्त्र्यं नेच्छामः । किंचित्कार्यानुरोधात्त्वार्यादेशेनेदं स्वातन्त्र्यमात्मन्यध्यस्य स्वतन्त्रवव्द्यवहराम इति भावः । यद्वा आर्यानुरोधादिदं स्वातन्त्र्यं कथंचिद्भ्युपगतम्। अतः परतरं अत उत्तरे काले । ‘कालाध्वनोरत्यन्तसंयोगे द्वितीया'। स्वातन्त्र्येभ्यो वयं पराङ्युखाः अतः परं कदापि स्वातन्त्रयं नेच्छामः। आर्याधीना एव सर्वदा वर्तामहे इति भावः ॥ ६ ॥


  1. अन्यच्च वा (?) G; M. R. om. कृत्वा; P. om. क in कृतक and has स्वातन्त्र्येण for स्व-ण; B. E. N. read च त्वया, G. त्वया, before किंचित् ; B N. read कंचित्कालम् ;after this R. has त्वया.
  2. °त्यार्योपदेशः B.H.°त्याचर्यादेशः G; N. (s) has after this स च कथं कथमपि मया महापातकवद्भ्युपगतः; E. agrees with text having only अनुगतः for अभ्युप°.
  3. मनसः N. (s);B. N. read सदैवास्व'.
  4. हि for वि B. R; om. in M; विचार्यते for निवार्यते N. (s).
  5. यथा M; G . has हि before तु.
  6. पदमपि यतः E.; पदमपि यतः स्वातन्त्र्येभ्यो न यान्ति पराङ्भुखाः H.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१५१&oldid=321606" इत्यस्माद् प्रतिप्राप्तम्