पृष्ठम्:Mudrarakshasa.pdf/१०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

मुद्राराक्षसम्।


द्वितीयोङ्कः।


( ततः प्रविशत्याहितुण्डिकः ।)

आहितुण्डिकः

[१]जाणन्ति तन्तजुत्तिं जहट्ठिअं मण्डलं अहिलिहन्ति ।
जे मन्तरक्खणपरा ते सप्पणराहिवे उवअरन्ति[२] ॥ १ ॥ (क)


(क) जानन्ति तन्त्रयुक्तिं यथास्थितं मण्डलमभिलिखन्ति ।
ये मन्त्ररक्षणपरास्ते सर्पनराधिपावुपचरन्ति ॥


 अथ राक्षसकृतोपायवृत्तान्तकथनाय प्राप्त्यााशापताकासंबन्धरूपो गर्भसंधिर्द्वितीयेनाङ्केनारभ्यते —-‘गर्भस्तु दृष्टद्रव्यस्य बीजस्यान्वेषणं मुहुः' इति लक्षणात् । पूर्वाङ्के दृष्टस्यात्र राक्षसाहितुण्डिकसंवादरूपया व्यापिन्या कथया पताकाख्यया नष्टस्यादृष्टस्य चाणक्यनीतिरूपस्य बीजस्याग्रे मुहुरन्वेषणात् । पताकाप्राप्त्याशानुगुण्येन गर्भसंधेरङ्गानि--

'अभूताहरणं मार्गो रूपोदाहरणे क्रमः ।
संग्रहश्चानुमानं च तोटकाधिबले तथा ।
उद्वेगसंभ्रमाक्षेपा द्वादशाङ्गान्यनुक्रमात् ॥'

तत्राहितुण्डिकच्छद्मधारिणो विराधगुप्तस्य सर्वं प्राकृतं वचनं प्रस्तुतोपयोगिच्छद्माचरणमभूताहरणम् । प्रस्तुतस्य राक्षसं प्रति कुसुमपुरवृत्तान्तकथनस्योपयोगे छद्माचरणात् ।

 जानन्तीति । ‘तन्त्रं स्वराष्ट्रचिन्तायां शास्त्रौषधमखेषु’ इति वैजयन्ती । तन्त्रे स्वराष्ट्रचिन्तायां विषौषधविशेषे च युक्तिं यथावज्जानन्ति । म

  1. १ जानन्दि P. In word following G. has त्र for न्त; E. has यु for जु
    and P. त्ती for र्ति; E. has यहठ्ठियं for जहट्ठिअं; P. यं for अं only, R. जहात्थिअं; G. has ल for लि and P. M. and R, न्दि for न्ति
  2. २ R.has अ before उव°; P. and E. have च्चर for अर°; B. चर°; P. and M. have न्दि for न्ति.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१०९&oldid=181801" इत्यस्माद् प्रतिप्राप्तम्