पृष्ठम्:Mudrarakshasa.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५८
मुद्राराक्षसे


( [१]आकाशे लक्ष्यं बध्दा ।) राक्षस राक्षस, विरम्यतामस्माहुर्व्यसनात् ।

उत्सिक्तः कुसचिवदृष्टराज्यभा[२]रो
 नन्दोऽसौ न भवति चन्द्रगुप्त एषः।
[३]चाणक्यस्त्वमपि च नैव केवलं ते
 साधर्म्य [४]मदनुकृतेः प्रधानवैरम् ॥ १२ ॥

( विचि[५]न्त्य ।) अथ वा नातिमात्रमत्र वस्तुनि मया मनः खेदयितव्यम् । कु[६]तः ।

मभ्दत्यैः किल [७]सोऽपि पर्वतसुतो व्याप्तः प्रविष्टान्तरै-
 रुघुक्ताः [८]स्वनियोगसाधनविधौ सिद्धार्थकाद्याः स्पशाः।


पौरुषबलमवष्टभ्य मद्बुद्धेः प्रकर्षमतिशयितुं व्यवसित इति अहो राक्षसस्य दुर्व्यवसितुमिति । वक्ष्यति च । केवलं प्रधानवैरं मदनुकृतेः साधर्म्यमिति ॥ ११ ॥

 उत्सिक्त इति । उद्रिक्त इत्यर्थः । प्रधानवैरं परिवृढद्वेषः केवलं ते तव मदनुकृतेः मदनुकरणस्य संबन्धि मत्स्पर्धाविषयकमिति यावत् । साधर्म्यं समानो धर्मः । स्वार्थे ष्यञ् बहुव्रीहेर्भावे वा । न तु बुद्धिप्रकर्षादिः मत्सादृश्ये ‘तव समानो धर्मोऽस्ति । अनेन यथा नन्दा उन्मूलितास्तथाहमपि मौर्यमुन्मूलयामीति प्रधानवैरमात्रेण मया सह स्पर्धते न तु बुद्धिप्रकर्षेणेति भावः । मदनुकृताविति विषयसप्तम्यन्तः पाठः साधु:।१२॥

 मभ्दृत्यैरिति । प्रविष्टान्तरैर्वशीकृतशत्रुहृदयैर्भागुरायणादिभिः । स्पशा गूढ़प्रणिधयः । ‘अपसर्पश्चर: स्पशः' इत्यमरः । सिद्धार्थकादथो भेदकर्मणि उद्युक्ता एव वर्तन्ते । अहमपि संप्रति चन्द्रगुप्तेन सह कृतककलहं कृत्वा


  1. प्रत्यक्षवत् added before this in B. E. G. N.; राक्षस om. in R. E. M.; रे £or it G; G. has चिरम्यताम् twice.; दुर्च्यवासितात् B. N. H; व्यवसितात् G; दुरध्यवसिता E; E. adds कुतः after this
  2. तन्त्रौ. B. E. N. G. H.
  3. स्त्वमसि N. (s); नचैव R. P.
  4. G. om, visarga.
  5. om R; after अथवा P; मस्मिन् £or °मत्र B. E. N. G.
  6. on R.
  7. नाम B. E. N. G. H; प्रतिष्टान्तरैः for प्रविप्टान्तरैः B. N.प्रदिष्टान्तरैः H,
  8. उद्युक्ताश्च नि° B.; चराः for
    स्पशाः N. (3) E.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१५५&oldid=321648" इत्यस्माद् प्रतिप्राप्तम्