पृष्ठम्:Mudrarakshasa.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३२
मुद्राराक्षसे


 विराधगुप्तः-स[१] र्वमनुष्ठितं ।

 राक्षसः-( सह्रर्षम् । ) किं हतो दुरात्मा चन्द्र[२] गुप्तः ।

 विराधगुप्तः-[३]अमात्य, दैवान्न हतः।

 राक्षसः-( सविषादम् ।) तत्किमिदा[४]नीं कथयसि सर्वमनुष्ठितमिति ।

 विराधगुप्तः-अमात्य, कल्पितमनेन योगचूर्णमिश्रि[५]तमौषधं चन्द्रगुप्ताय। [६]तत्प्रत्यक्षीकुर्वता चाणक्यहतकेन कनकभाजने वर्णान्तरमुपलभ्याभिहितश्र्चन्द्रगुप्तः —‘वृ[७]षल, सविषमिदमौषधं न पातव्यम्’ इति ।

 राक्षसः-शठः खल्वसौ बटुः। अथ स[८] वैद्यः कथम् ।

 विराधगुप्तः-त[९]देवौषधं पायितो मृतश्च ।

 राक्षसः-( सविंषा[१०] दम् । ) अहो महान्विज्ञानराशिरुपरतः । अथ तस्य शयनाधिकृतस्य प्रमोदकस्य किं वृत्तम् ।


 अथ तस्येति । शयनाधिकृतस्य शयनगृहसंस्कारादिना राजप्रलोभनेऽधिकृतस्येत्यर्थः ।


  1. B. G. E. add अमात्य before this; G. om. अनुष्ठितम्.
  2. B. अपि नाम सखे हतश्चन्द्रगुप्तहतकः; G. N. अपि सखे हतश्चन्द्रगुप्तहतकः; E. agrees omitting सखे.
  3. om.in E.
  4. किमिति E. which reads परितुष्टः after this; B. has.परिं after कथं.
  5. R. has चूर्णित for चूर्ण; G. मिश्र for मिश्रित; E. reads विषयोगचूर्णमौषं; B. विषसूर्णमिं.
  6. B. G. E. add च after तत्; नस्यं;वर्णान्तरं गमनसुपं. E; B. and A. have उपगतम् after वर्णान्तरम्.
  7. B. E. repeat वृषल; G. has चन्द्रगुप्तवृषल before this; B. M. R. om. इदम्; E.has न पातव्यं न पातव्यम् before सविषम् and om. all after औषधम्.
  8. om. M.G.
  9. स खलु वैद्यः before this in B; E. has ततः स खलु वैं; यित उपरतश्चB.;यितश्चोपरतश्व N.E.G.
  10. om. E; E. B. read next Word as अहह; G. omits it; महाकार्यराशि G. N.;B. has भद्र and E. सखे before अथ; G.E. om. अथ and M. om. तस्य ।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१३३&oldid=321397" इत्यस्माद् प्रतिप्राप्तम्