पृष्ठम्:Mudrarakshasa.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
मुद्राराक्षसे


कौटिल्यधीरज्जुनिशुद्धमूर्ति
 मन्ये स्थिरां मयेनृपस्य[१] लक्ष्मीम् ।
[२]उपायहस्तैरपि राक्षसेन
 निकृ[३]ष्यमाणामिव लक्ष्यामि ॥ २॥

तदेवमनयोः बुद्धेि[४]शालिनोः सुसचिवयोर्विरोधे संशयितेव नन्द[५]कुललक्ष्मीः ।

विरुद्धयोर्मुशमिह मत्रिमुख्ययो
 र्महावने वनगजयोरिवा[६]न्तरे ।
अनिश्चयाद्जवशयेष भीतया
 गतागतैर्ध्रुव[७] मिह खिद्यते श्रिया ॥ ३ ॥

तद्याव[८]दमात्यराक्षसं पश्यामि । (इति परिक्रम्य स्थितः[९] ।)


 ‘कौटिल्यधीरज्जुनिबद्धमूर्तिम्’ इत्यत्र रूपकानुप्राणिता उत्प्रेक्षा ॥ २ ॥

 अनिश्चयादिति । अनिश्चयादन्यतरविजयानिर्धारणात् । अत्रोपमानुप्राणितोस्प्रेक्षा । इयं प्राप्याशा—‘उपायापायशङ्काभ्यां प्रत्याशा कार्यसंभवः' इति लक्षणात् । कौटिल्यधीरज्जुनिबद्धति उपायशङ्का राक्षसेन निकृप्यमाणा इति अपायशङ्का ताभ्यां कार्यस्य मौर्यीयैर्यस्य संभवः कादाचिकत्वेन संभावना । विराधराक्षसयोर्महती संवादकथा पताका–‘प्रतिपाद्य कथाङ्ग स्यात्पताका व्यापिनी कथा ' इति लक्षणात् । अनयोः संबन्धाद्यं गर्भसंधिः ॥ ३ ॥

 तद्यावदिति । इदमङ्कास्यम्—‘अङ्कान्तपात्रैरङ्कास्यंमुत्तराङ्गार्थसूचना इति लक्षणात् । पूर्वाङ्कान्ते चाणक्येन मद्बलेन विगाहमानमिति राक्षसकृ-


  1. B. E. N. G. have कुलस्य for नृपस्य.
  2. G. has इह for अपि ; उपपायहस्तेन च, the Mis. M. in H.
  3. निःसृ°. G. E.निष्कृ. A. M.विकृ B.
  4. सुनयश. B. B. H; E. om. सु in मुख.
  5. ED. adds राज्य after कुल G. has इयं for नन्द; after. लक्ष्मीः .B. G. E add लक्ष्यते । कुतः N. लक्ष्यते । यतःA. and P. simply यतः
  6. R. and M. have अन्तिके for अन्तरे.
  7. B. has भृश for ध्रुच; R. has इव for इह
  8. B. and G add अहम् afterयावत्.
  9. B. and G. and E. om. इति &c.B. and M. add द्वारि before स्थितः
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/११३&oldid=321111" इत्यस्माद् प्रतिप्राप्तम्