पृष्ठम्:Mudrarakshasa.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३८
मुद्राराक्षसे


नामस्मत्सुहृदां पूर्वग्र[१]तिज्ञातसंधिपरिपणनश्रोत्साहनेन सत्यसंधः प्रीतिमुत्पादयितुमर्हति । एतेऽप्येवमनुगृ[२] हीताः सन्तः स्वाश्रयविनाशेनोपकारिणमाश्रयिष्यन्ति । अविस्मृतमेत [३]त्सत्यवतः स्मारयामः। एतेषां मध्ये केचिदरेः कोप[४]दण्डाभ्यामर्थिनः केचिद्विषयेणेति । अलंकारअयं च सत्यवता य[५]दनुलेपितं तदुपगतम् । मयापि लेखस्यान्यार्थं किंचिदनुग्नेषितं त[६]दुपगमनीयम् । वाचिकं चाप्ततमादस्माच्छोतव्यमिति ।

 मलयकेतुः--भ[७]गुरायण, कीदृशो लेखः ।

 भागुरायणः--भ[८]द्र सिद्धार्थक, कस्यायं लेखः।

 सिद्धार्थकः—अज्ञ, ण आ[९]णामि । (क)


 (क) आर्य, न जानामि ।


 किलेति बलाद्पादनार्थम् । अस्मसुहृदां कौलूतादीनामित्यर्थः ।

 संधिपरिपणनस्य संधिसमये पूर्वदित्सितस्य प्रोत्साहनम् । अवश्यं स्यामीत्याश्वासनम् ।

 अविस्मृतमिति । सत्यवत्वात्त्वं न विस्मरस्यथापि स्मारयाम इत्यर्थः।

 लेखस्येति । रिक्तहस्तेन प्रभू प्रति लेखो न लेख्य इत्याचारालेखसाद्रुग्यार्थं किंचित्प्रेषितमिति भावः

 भागुरायण इति । कं प्रति केन लिखितमिति प्रष्टव्यमिति भावः ।


  1. पूर्वसंप्र° M. R. G.; पूर्वं प्र° E; संबन्धि for संधि M. R. G; B. N. read 'पणवस्तुप्रतिपादनप्रो° for पणनप्रो'; _G. E. om. °न 1nपणन.; परिपणप्रतिपादनेन H.
  2. चैवमुपगृ° B.; 'मुपगृ° E. N. R.; °नैवाप B. IE. N; माराधयिष्यन्ति for ‘माश्रयि° B. N. D. G°माश्रयन्ति A. P.
  3. B. E. N. add अपि before ;एतत्; स्मारयामि B.; स्मारयामः IE.; °त्सत्यमारचयामः R.; Omमध्ये E; मध्यत् ।G; ‘दपरे for °दरेः R.
  4. कोश E.दन्ति° for दण्डा'. B; B. N. read अस्साम्प्रति before अलंकार.
  5. B. N. before ; अस्माभिरपि for read यत् सय मयापि B. N.
  6. reads तिष्ठति before तत्; B. E. N. G. read सिद्धार्थकात् । for अस्मात्; E. has प्रत्येतव्यम् for श्रो°.
  7. B. E. N. G. G read सखे before this; लेखर्थ: for लेखः B.N.
  8. Om R; Romक in सिद्ध.
  9. ण जा° M.P.ण याण° B. ; णयामि. N.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२२७&oldid=326395" इत्यस्माद् प्रतिप्राप्तम्