पृष्ठम्:Mudrarakshasa.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८८
मुद्राराक्षसे


 पुरुषः--भद्द[१]मह्, तह करेहि । (क)

(त[२]तः प्रविशति शयनगृहगत आसनस्धह शकटदासेन सह सचिन्तो राक्षसः ।)

 राक्षसः-([३]आत्मगतम् ।)

मम विमृशतः कार्यारम्भे विधेरविधेयता
 [४]पि च कुटिलां कौटिल्यस्य प्रचिन्तयतो मतिम् ।
[५]पि च विहिते मत्कृत्यानां निकाममुपग्रहे
 कथमिदमिहेत्युन्निद्रस्य प्रया[६]त्यनिशं निशा ॥ २ ॥

अपि च।

कार्योपक्षेपमादौ तनुमपि रचयंस्तस्य विस्तारमिच्छ
 न्बीजानां गर्भितानां फलमतिगहनं गूढमुभ्देदयम्श्च।
कुर्वन्बुद्ध्या वि[७]मर्शं प्रसृतमपि पुनः संहरन्कार्यजातं
 कर्ता वा नाटकानामिममनुभवति क्लेशमस्मद्विधो वा ॥ ३ ॥


( क ) भद्रमुख, तथा कुरु ।


 ममेति । मम कार्यारम्भे कार्यारम्भप्रभृति विधदैवस्याविधेयतां प्रतिकूलतां विमृशतः मकृत्यानां विषकन्यादिकपटकार्याणामुपग्रहे निरोधे अन्यथाभावे कथमिदमिह राजकार्यं भविष्यतीत्युन्निद्रस्यानिशं निशा प्रयातीत्यन्वयः ॥ २ ॥

 कविरत्राद्भुततरनीतिविषयकस्वसंविधानक्लेशं राक्षसवचनव्याजेन प्रस्तौति-कार्योपक्षेपमिति । कार्योपक्षेपं बीजन्यासं तनुम् स्तोकोद्दिष्टमादौ


  1. G. reads भद्द मुहुत्तअं तथा करेमि; N. भद्दमुह तहा करेमि; B. भद्दमुहा करेहि; B. भद्दमुह जधा दे रोअदि; P. has करोमि for करेहि in text
  2. B. E.N. G. E. omगृह after शयन; B. E. N. H; read °गतेन for °स्थः in आसः नस्थःB. . read अनुगम्यमानः for सह and B. has चिन्तितो for खचिन्तो N
  3. स्वगतम् G.
  4. °अथच E., सहज B. N., for अपिच.
  5. अपि E.H. विहते तछ° for विहिते संस्कृ° B; तत् for मत् E. H.; इं° for ‘हि° N.
  6. °न्य°..शाः B. E, N. G. H.
  7. बर्षम् B. N. मशीन E; सुहुः for पुनः A.; पुरः (G.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१८१&oldid=323421" इत्यस्माद् प्रतिप्राप्तम्