(ततः प्रविशति कञ्चुकी । )
कञ्चुकी--
(परिक्रम्योप[४]सृत्य च |) इदममात्यराक्षसस्य गृहम् । प्रविशामि । (प्रविश्यावलोक्य च |) स्वस्ति भवते ।
राक्षसः-[५]आर्य, अभिवादये । प्रियंवदक, आसनमानीयताम्।
पुरुषः[६]-एदं आसणम् । उपविसदु अज्जो । (क)
(क) इदमासनम् । उपविशतु आर्यः ।
कामं नन्दमिति । यथा चाणक्यनीत्या नन्दं प्रमथ्य कुसुमपुरे मौर्यः प्रतिष्ठापितः तद्वज्जरसा कामं विषयाभिलाषमुपमर्द्य मयि धर्म:प्रतिष्ठापितः। वार्ध्दके विषयवैराग्ये कामं विहाय धर्ममेव सेवितुमुत्सहे इति भावः । संप्रति मलयकेतुसेवया लब्धान्तरः लब्धावसरः राक्षसः यथा तमुपचीयमानं वर्द्धिष्णुं मौर्यमनु लक्ष्यीकृत्य जयाय मौर्यजयायेत्यर्थः । ‘लक्षणेत्थंभूत–’ इति कर्मप्रवचनीयेनानुना योगे द्वितीया । यतते जेतुं च न शक्नोति। न शक्ष्यति चाणक्यनीतेः प्रबलत्वात् । एवं सेवया कुलाचारादावश्यकत्वेन गले पतितया राजकुलसेवया लब्धावसर: मे मम लोभः सेवाविषयोऽभिलाषः वार्द्धकोचितस्य धर्मस्य जयाय यतते जेतुं न शक्नोति च । कुलाचारतया यथाशक्ति राजकुलं सेवमानोऽपि वार्द्धकोचितं शमदमादिकं धर्म
- ↑ जरस N.; यया for यथा M. R.
- ↑ प्रसह्य M. R.
- ↑ B. E. G. have अपि for अनु; चिरात् for जयाय noticed in footnote H.; तं for च at end P.
- ↑ नाट्येन परिक्रम्य instead of प...च and यावत् before प्रवि G. agrees om. स्य in राक्षसस्य. N. agrees with text om. स्य. For प्र..च. G. has परिक्रम्योपविश्य; E. परिक्रम्योपसृत्य; B. reads इव्ष्टा । अयममात्यराक्षसः । परिक्रम्योपसृत्य च। अमात्य स्वस्ति भवते.
- ↑ E. has अवलोक्य before this; B. G. N. have जाजले after this; B. has आसनमत्रभवत उपनय;N.G.E. आसनमत्रभवतः.
- ↑ B. R. have प्रियं for पुरुषः; आसनं for आसणं G.E.