पृष्ठम्:Mudrarakshasa.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६४
मुद्राराक्षसे


 (उपसृत्य ) विजयतां वृ[१]षलः।

 राजा-–( आसना[२]दुत्थाय ।) आर्य, चन्द्रगुप्तः प्रणमति । ( इति पाद्योः पतति ) ।

 चाणक्यः--(पाणौ गृहीत्वा ।) उत्तिष्ठोत्ति[३]ष्ठ वत्स ।

आ शैलेन्द्राच्छिलान्त[४]स्खलितसुरनदीशीकरासारशीता
 त्तीरा[५]न्तान्नैकरागस्फुरितमणिरुचो दक्षिणस्यार्णवस्य ।
आगत्यागत्य [६]भीतिश्रणतनृपशतैः शश्र्वदेव कियन्तां
 चूडारत्नांशुगर्भास्तव चरणयुगस्याङ्गुलीरन्ध्र[७]भागाः ॥ १९ ॥

 राजा-आर्य[८]प्रसादादनुभूयत एव सर्वम् । तदुपविशत्वार्यः

( उभौ यथोचि[९]तमुपविष्टौ ।)

 चणक्यः —व्रषल, किमर्थं व[१०]यमाहूताः ।


इति स्वस्योचितकारित्वादिगुणै: स्वयमन्तस्तुष्यति । ‘प्रीतिं परां प्रगुणयन्ति गुणा ममैते’ इति । एते नन्दोद्धारणादिसाधका मम गुणा मम । प्रीतिं प्रगुणयन्ति वर्धयन्ति ॥ १८ ॥

 आ शैलेन्द्रादिति । शिलान्तस्खलितेत्यादि विशेषणात् शैलेन्द्रो हिमवान्गम्यते । आ हिमाचलादासेतोश्र्च समागत्य सर्वे नृपतयः त्वां प्रणमन्त्वित्याशीः ॥ १९ ॥


  1. देवः G.
  2. सिंहास° B. N; B. B. after " उत्थाय add चाणक्यस्य पादौ गृहीत्वा and B. E. and G. om. इति-ति at the end of speech.
  3. B. E. N. Om. One . उत्तिष्ट; G. has वत्स before this and पश्य after it
  4. °न्तः A. G;
    B. N. read धुनी for नदी further on; N. (s)सीकराचारवर्षा°E.has वर्षा °for शीता'
  5. for 'त्तीर' B. E. G. H. read दातीरात्रै,N. (s) दाप्रान्तात्रै °;P. also reads धामस्फुटित for रात
  6. भीत M. R; एवम् for एव. A.P;
  7. रस्त्र AP.
  8. E has . युष्मत् before प्रसा', 'G, om प्रसादात्.For संव्र तत् एतत्राशास्यते; E. एतत्रशास्यं मे; B. N. add इति after आर्यः
  9. G. om. उभौ; B. E. N. G. read यथासनम्.
  10. वयम्before कि° A. P
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१६१&oldid=321737" इत्यस्माद् प्रतिप्राप्तम्