पृष्ठम्:Mudrarakshasa.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०६
मुद्राराक्शसे


 एका केवलमेव[१] साधनविधौ सेनशतेभ्योऽधिका
  नन्दोन्मू[२]लनदृष्टवीर्यमहिमा बुद्धिस्तु मा गान्मम ॥ २६ ॥

( उत्थाय आ[३]काशे लक्ष्यं बद्वा।) एष दुरात्मनो भद्रभटप्रभृतीनाह[४]रामि । ( आत्मगतम् ।) दुरात्मन् राक्षस केदानीं गमिष्यसि ।

एषोऽहमचिराद्भवन्तम्

 स्वच्छन्दमेकचरमुज्ज्वलदानशक्ति
  मुत्सेकिना मदबलेन[५] विगाहमानम् ।
 बुद्धया निगृह्य वृषलस्य कृते त्रियाया
  मारण्यकं गजमिव प्रगु[६]णीकरोमि ॥ २७ ॥

( इति निष्क्रान्ताः सर्वे ।)

प्र​[७]थमोऽङ्कः।


 स्वच्छन्दमिति । स्वच्छन्दं निरङ्कशं स्वपक्षमनाश्रित्य विजातीयं परपक्षं कथमाश्रितोऽसीति तव कोऽपि नियन्ता नास्तीत्यर्थः । एकचरमिति । वयसन्न नन्दवंशसंबन्धिनः सर्वे स्वजना वर्तामहे तान्विहाय तत्रैकश्चरसीति भावः। उज्वलदानशक्तिं परकृत्योपजापाथै महता कोशसंचयेन स्थापित: शकटदास इति वक्ष्यमाणबहुव्ययकारिणम् । उत्सेको दुरभिमानो अरातिहस्तगतो विनयेन्न तु चन्द्रगुप्तेन संदधीतेति षष्ठाङ्के वक्ष्यमाणदुरभिमानवता मदबलेन विगाहमानमस्मदपकाराय चेष्टमानं त्वामारण्यकं गजमिव प्रगुणीकरोमि । यथा आरण्यको दुष्टगजः शनैर्गर्तपाद्दृढरज्जुबन्धनादिनोपायेन संवाहनादित्रियायां प्रगुणीक्रियते वशीक्रियते । एवं त्वामतिसंकटे पातयि-


  1. अर्थ​ for एव B, andH.
  2. नन्दोपटन. E.
  3. G. E. om. all आकां--बद्व​; B, has प्रत्यक्षवत् before आका°. B adds खलु after एष.
  4. भद्रमुखः G; for आहरामि G. reads ग्राहयिष्यामि; F. and H. ग्राहयामि; M. and G. have स्वग° for आत्मगं' which follows; R. has आः before दुरात्मन्; G. and E. om: इदानीम् which follows; B. N. G. E. read यास्यसि for गमिष्यसि
  5. उत्सेकिनम् R; बलमदैन B. E. G. H.विगाह्यम° R. G. E.; विदह्यमानम् H.
  6. M. has प्रवणं करोमि; R. प्रवणीकं .
  7. Before this B. has इति मुद्राराक्षसे; P: has इति मुद्राराक्षसनाम्नि नाटके युद्धलाभः;A. has मुद्रलाभो नाम; N. has इति मुद्रालाभो नाम and समाप्तः afterअङ्कः
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१०७&oldid=321055" इत्यस्माद् प्रतिप्राप्तम्