पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
81
श्लेषसरः (२८)

अनुशासनेन प्रशासितृत्वेन कदा भायात् । सर्वेश्वरेश्वरे सर्वप्रशासितरि श्रीनिवासे शेषाद्रौ देदीप्यमानवैभवे सति भुवि मितंपचैश्वर्यः कोऽपि प्रशास्तृतया न कदाऽपि भायादिति भावः ॥

 अन्यत्र-- तत्पुरुषे, एवेत्येतदिहान्वेति । तत्पुरुषसमासे विवक्षित एव न तु बहुव्रीहाविति भावः । तेन कूष्ट्रो राजेत्यादौ वक्ष्यमाणः कदादेशो न भवतीति ध्येयम् । अजादौ अज्वर्णादौ अधिपतौ अधिपतिशब्दे । अजादाविति विशेषणं वस्तुस्वरूपकथनमात्रपरं अधिपतिशब्दस्याजादितायाः स्फुटत्वात् । उत्तरपदे सति अनुशासनेन कोः कदित्यादिपदैः प्रत्यभिज्ञापितेन ‘कोः कत्तत्पुरुषेऽचि' इति सूत्रेण । कोः कुशब्दस्य उत्तरपदेन पूर्वपदस्याक्षेपात्पूर्वपदभूतस्येत्यर्थः । कदादेशे कदित्यादेशे सति सदा नित्यतयेत्यर्थः । कदधिपतिः भायात् । कदधिपतिरिति निष्पद्येतेत्यर्थः । उक्तसूत्रेण कदादेशस्य नित्यतया विधानादिति भावः ॥

 यथावा--

 एको गोत्रे नियमादापत्यप्रत्ययः कुतश्शौरौ । नोत्पद्येत तदानीमन्यप्रत्ययपरम्पराऽनिष्टा ॥ ८६४

 अत्र भगवद्विषयध्यानस्य प्रकृतस्य गोत्रापत्यप्रत्ययस्याप्रकृतस्य च श्लेषः । तथाहि-- गाः त्रायत इति गोत्रः गोपालः 'आतोऽनुपसर्गे’ इति कः । तस्मिन् शौरौ भगवति वासुदेवे आपत्य आदृत्येति यावत् । यदेति शेषः । आङ्पूर्वकात्पतेः क्त्वो ल्यप् । नियमात् एकः प्रत्ययः अविच्छिन्नस्मृतिसंततिः कृतः । तदानीं अनिष्टा भयहेतुतया हानिप्रदा अन्यप्रत्ययपरम्परा विजातीयप्रत्ययधारा नोत्पद्येत । विजातीयप्रत्ययानन्तरितत्व-

 ALANKARA II
11