(विलोक्य स[१]भयम् ।) अये, तदयमार्यचाणक्यस्तिष्ठति ।
( जा[४]नुभ्यां भूमौ निपस्य ।) जयत्वार्यः।
चाणक्यः—वैहीन[५]रे, किमागमनप्रयोजनम् ।
कार्पण्यास्प्रवाचः उद्दण्डवचनाः सन्तः अभूतैरसत्यैर्गुणैः स्तुवन्तीति यत्स खलु तृष्णायाः प्रभाव इति योजना ॥ १६ ॥
अये तदयमिति । तदयमिति कर्मधारयसमासः सोऽयमित्यर्थः ।
यो नन्देति । लोकं नन्दामात्यादिकं परिभूय स्वमत्रशक्त्या मोहयित्वा नन्दमौर्ययोरभिन्नकालं युगपदस्तोयौ दत्तवान् । अत एव सर्वशत्रुव्यापिना स्खेन धाम्ना असर्वगामि पर्यायेण कालक्रमेण पातितं नाशितं हिममुष्णं वा येन तत्सहस्रधानः सूर्यस्य धाम तेजः अतिशाययति अतिक्रामयति । धामातिशेते तेन धाम्ना स्वयं अतिशाययति । सोऽयमार्यश्चाणक्यस्तिष्ठतीति पूर्वेणान्वयः । अतिपूर्वकाच्छीडो हेतुमण्णिच् । अत्र लोकशब्देन लोकालोकपर्वतो लक्ष्यते । असर्वगामीत्यनेन सूर्यतेजसस्तद (न?) तिक्रमणमुक्तम् । एवं च लोकं परिभूयातिक्रम्य नन्दुमौर्ययोर्युगपदस्तोयौ दिशचाणक्यतेजः लोकमनतिक्रमतोऽत एवासर्वगामिनः
- ↑ B. N. A. P. om. विलो°;M. R read स्वगतम् for वि-स्--G. om. अये तत् which follows; E om. तत्; B. N. om अये; N. (s) adds स एषः; E.य एषः
- ↑ For अदिशदप्रति° ' B. N. read प्रतिदिशन्नवि°; M. अदिशवृक्प्रति (?) उपदिशन्नविभिन्न° H.
- ↑ °ष्णिम° B. N.°स्थम (?) A.; °ष्ण° om. in E.
- ↑ अकाशम् before this M. R; पतति for निपत्य G; B. N. have जयतु twice; E. reads जयत्यायैः and G. om जयैः
- ↑ B. E. N. G• have नाव्येनावलोक्य; E. has also आर्य before this.