पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
59
श्लेषसरः (२८)

इति विहितो नुमागमः आगमः आ इत्याकारकवर्णस्य गमः संबन्धः ‘सान्तमहतः’ इत्यनेन विहितो नकारोपधादीर्घ इति यावत् । सोऽपि सिद्ध इति ॥

 यथावा--

 इह बृंहति परभूमनि नोद्भवति प्रकृतिसङ्गतो नुमतः । ब्रह्मणि नरस्तथात्वेनोस्स्यान्नाप्यत्र वशिकृतीडितता ॥ ८५३ ॥

 अत्र प्रकृतस्य ब्रह्मविदः अप्रकृतस्य ब्रह्मशब्दस्य च श्लेषः । तथाहि इह बृंहति परभूमनि न उद्भवति प्रकृतिसंगतः नु मतः ब्रह्मणि नरः तथात्वे नो स्यात् न अपि अत्र वशीकृतीडितता इति पदच्छेदः । नरः चेतनः परभूमनि निरतिशयमहिमनि ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’ इत्युक्तरीत्या निरतिशयवैपुल्यविशिष्टे इत्यर्थः । अत एव बृंहति वर्धमाने 'नैनमूर्थ्वं न तिर्यञ्चं न मध्ये परिजग्रभत्’ इत्याद्युक्तरीत्या सर्वव्यापिनीत्यर्थः । ब्रह्मणि विषये मतः मन्ता 'मतिबुद्धि' इत्यादिना कर्तरि क्तः । परब्रह्मस्वरूपमननशील इत्यर्थः । प्रकृतिसङ्गतः प्रकृतिसंसर्गात् इह अस्यां भूमौ अस्मिन् लोके इति वा । नोद्भवति नु भूयो न जायत इत्यर्थः । अर्चिरादिपथेन परब्रह्म प्रतिपद्य पुनर्नावर्तते ।

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानस्संसिद्धिं परमां गताः ॥

इति गानादिति भावः । तथात्वे एवमनावृत्तत्वे सति । अत्र अस्मिन् ब्रह्मविदि नरे वशिकृतीडितता वशी सर्वेश्वरः स्वा-