पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
320
अलंकारमणिहारे

(३८)-अथासंभवसरोऽष्टत्रिंशः.


असंभाव्यत्वकथनमर्थसिद्धेरसंभवः ॥

 कस्यचित्कार्यस्य निष्पत्तेरसंभावनीयत्ववर्णनमसंभवो नामालंकारः । यथा--

 कुरुसदसि द्रुपदसुता परिभूताऽभूद्यदा तथा धूर्तैः । तव करुणा तां भगवंस्तदाऽभिरक्षेत्तथेति को वेद ॥ ११३९ ॥

 यथावा--

 चरणत्रयमितधरणीवरणकृतार्थेन वामनेन हरे । जगतां त्रितयं भवताऽऽक्रम्यत इति केन नाम विज्ञातम् ॥ ११४० ॥

 यथावा--

 सर्वद इति हृदयं त्वयि दर्वीकरगिरिपते मया न्यस्तम् । अपहरसि तदेव त्वं देव त्वामीदृगिति न वेदाहम् ॥ ११४१ ॥

 अत्रोदाहरणत्रये पाञ्चालीरक्षणजगत्त्रयाक्रमणहृदयापहरणानां पदार्थानां निष्पत्तेरसंभावनीयत्वं को वेदेत्यादिभिराविष्कृतमिति लक्षणानुगतिः ॥