पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
311
विशेषोक्त्यलङ्कारसरः (३७)

त्याग्रहः तदा इत्थं समर्थनीयम् । तथाहि-- विनाऽपि कारणं कार्यजन्मेति विभावनायास्सामान्यलक्षणम् । इयं च तावत् द्विविधा । शाब्दी आर्थी चेति । शाब्दी त्रिविधा । प्रतिबन्धकातिरिक्तकारणव्यक्तिप्रतियोगिताकाभावोक्तिपूर्विका सत्यामपि कारणव्यक्तौ यदवच्छिन्नत्ववैकल्यप्रयुक्तः कार्याभावः तद्वैकल्योक्तिपूर्विका, स च कारणतावच्छेदकधर्मः क्वचित्कारणतावच्छेदकसंबन्धश्च । प्रतिबन्धकोक्तिपूर्विका चेति । आर्थ्यपि त्रिविधा । प्रकृतकार्यसमानजातीयकार्यान्तरस्य कारणात् प्रकृतविरुद्धकार्यस्य कारणात् स्वकार्याद्वा । प्रकृतकार्यस्योत्पत्तिरिति । एतदर्थकमेव हि ‘अकारणात्कार्यजन्मेत्यादि" इत्याहुः ॥

इत्यलंकारमणिहारे विभावनासरः षट्त्रिंशः.


(३७) अथ विशेषोक्तिसरः.


विशेषोक्तिः पुष्कलेऽपि हेतौ कार्यं न चेद्भवेत् ।

 सत्यामपि कारणसामग्र्यां कार्यस्यानुत्पत्तिविशेषोक्तिर्नामालंकारः । अस्यां च विरोधः प्रतिभासमानः प्रसिद्धकारणान्तरवैकल्यबुद्ध्या निवर्तते ॥

 यथा--

 स्नातं तीर्थेऽधीतं स्फीतं शास्त्रं कृतं सुकृतजातम् । एतन्ममाविनीतं चैतन्यं तदपि हन्त किं जातम् ॥ ११२९ ॥

 चेतनैव चैतन्यं बुद्धिरित्यर्थः । हन्त किं जातमिति निर्वेदातिशयकथनम् । अत्र ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदि-