पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
34
अलंकारमणिहारे

श्रितस्सन् इह अस्मिन्नद्रौ विष्वक् समन्ततः अञ्चति संचरति विहरतीति यावत् । तत् तस्मात् भगवद्विहरणाद्धेतोः अयं भगवद्विहारस्थानभूतः अगश्च गिरिरपि समन्ततः परितः दृश्यः द्रष्टव्यः, जनैरिति शेषः । न केवलं भगवानेव दर्शनीयः अपितु सर्वतोपि भगवत्संचरणात्पावनतमोऽयं गिरिरपि सर्वेस्सर्वतो दर्शनीय एवेत्यर्थः ॥

 पक्षे-- विष्वक् विष्वगित्याकारकः देवः देव इत्याकारकश्च शब्दः अञ्चतिः अञ्चुधातुः परो यस्य सः अञ्चतिपरस्सन् । अञ्चतीति श्तिपा निर्देशः । अग्र्यं अग्रे टिस्थाने भवं अद्रिं अद्रीत्याकारकं महान्तं अनेकाल्त्वाद्बृहन्तं आदेशं श्रित प्राप्तः भवति । ननु अञ्चतिपरो विष्वक् देवश्च यद्यद्यादेशं प्राप्नुयात्तर्हि विष्वगञ्चनं देवाञ्चनमित्यत्रापि विष्वग्देवयोरद्र्यादेशस्स्यादित्यत आह-- अप्रत्ययोपि धातुरिति । अस्मिन्पक्षे इहेत्येतदत्रान्वेति । इह अञ्चतिपर इत्यत्र विद्यमानः धातुरपि अञ्चुधातुश्च अप्रत्ययः अविद्यमानः प्रत्ययो यस्मादित्यप्रत्ययः क्विबन्त इत्यर्थः । क्विपस्सर्वस्यापि लोपादविद्यमानत्वम् । यद्वा अविद्यमानः प्रत्ययः अप्रत्यय इति तत्पुरुष एव । तस्य धातुविशेषणत्वेन तदन्तलाभः अविद्यमानप्रत्ययान्तः क्विबन्त इत्यर्थः। अन्यथा विष्वगञ्चनमित्यादाविवाद्र्यादेशानापत्तेरिति भावः । तत् तस्मात् विष्वग्देवयोष्टिस्थाने अद्र्यादेशाद्धेतोः समन्ततः सम्यगन्ते विद्यमानः अयं प्रकृते विष्वक्छब्दे देवशब्दे च स्थितः अग इत्यत्र अक् अः इति छेदः । ‘झलां जशोऽन्ते' इति ककारस्य जश्त्वेन गकारः यथासंख्यं विष्वक्छब्दस्थः अक् इत्याकारकवर्णसमुदायः अश्च देवशब्दस्थः अकारश्चेत्यर्थः । अदृश्य इति छेदः । अद्यादेशेनापहृतत्वान्न दृश्यत इत्यर्थः । अत्र 'विष्वग्देव-