पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
25
श्लेषसरः (२८)

लिसंस्फोटसंयुगाः' इति युद्धपर्यायेष्वमरः । छितः छिन्नः छायते स्मेतिच्छितः 'छो छेदने’ इति दैवादिकाद्धातोः कर्मणि क्तः 'शाच्छोऽन्यतरस्याम्' इति वैकल्पिकमित्वम् । ‘कृत्तं दातं दितं छितं वृक्णम्' इत्यमरः । अपिच दानान्विता दा इति वर्णेन नान्विता अयुक्ता विरहितेत्यर्थः । नशब्देन समासः । वदान्यता वन्यतेत्यर्थः । विरचिता । वैरिणो न केवलमपचितविभवा एव कृताः, किंतु वन्यवृत्तयोऽपीत्यभिप्रायः । अत्र भगवदीययोर्मित्रामित्रयोरप्रस्तुतयोश्श्लेषः । द्वयोरपि प्रस्तुतत्वाभिसन्धौ प्रकृतानेकविषयश्लेषस्यैवोदाहरणं भवेत् । एवं पूर्वोदाहरणेऽपि द्रष्टव्यम् ।

 प्रस्तुताप्रस्तुतयोर्यथा--

 यो वहति मञ्जुलक्ष्माच्छायामसितां घृणिप्रतीतात्मा । वृषभागं तुङ्गमयन्नयं हरिः प्रथयते श्रियं हृद्याम् ॥ ८३२ ॥

 अत्र भगवच्चन्द्रमसोः प्रस्तुताप्रस्तुतयोः श्लेषः । तथाहि-- मञ्जृ मनोहरं लक्ष्म श्रीवत्सचिह्नं असाधारणं शङ्खचक्रादिचिह्नं वा यस्य स तथोक्तः । अनेन परत्वं सूचितम् ।

तमसः परमो धाता शङ्खचक्रगदाधरः ।
श्रीवत्सवक्षा नित्यश्रीरजय्यश्शाश्वतो ध्रुवः ॥

इत्याद्यृक्तेः । असितां श्यामलां छायां कान्तिं वहति । अयं हरिः भगवन् घृणिप्रतीतात्मा घृणा अस्यास्तीति घृणी दयावान् । व्रीह्यादित्वान्मत्वर्थीय इनिः । ‘जुगुप्साकरुणे घृणे' इत्यमरः । घणीति प्रतीतात्मा प्रख्यातस्वभावः । ‘घृणी सत्यपराक्रमः'

 ALANKARA II
4