पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
8
अलंकारमणिहारे

पाप्मा नैल्यं च येन तत्तथोक्तं, दहरगुहायाः घनतमः तत्र विद्यमानस्सान्द्रस्तमोगुण एव गाढतमिस्रं मेघावृतिप्रयुक्तं तिमिरं वा । इमां दहरगुहां प्रविश्य किं न हरसि, न हरसि किमिति वा योजना । केन हेतुना न हरसि वा न जानीम इति प्राथमिकयोजनायामभिप्रायः, हरस्येवेति द्वितीययोजनायाम । अत्र चक्रधरेति विशेष्यं चक्रस्य भास्करकोटिभास्वरतया तद्धारिणो भगवतः हृदयगुहान्तर्गतघनतमोनिबर्हणसौकर्यमभिप्रैति ॥

यथा वा--

 दूरोत्सारितदुस्सहदुरन्तदुर्वासनं विधायैव । वनमालिन्नामोदय ननु मानसमानतस्य मम ॥ ८१३

 अत्र वनमालिन्निति विशेष्यं दूर्वासनादूरोत्सारणपूर्वकामोदनोपपत्तिरूपमभिप्रायमभिव्यञ्जयद्वाच्यस्योपस्कुरुते ॥

 यथा वा--

 राम इति नाम यत्तव तामरसेक्षण सहस्रनामसदृक्षम् । को महिमानं गदितुं नामास्य पटुस्तमन्तरेणानन्तम् ॥ ८१४ ॥

 अस्य महिमानं गदितुं को नाम पटुरिति योजना । ‘पर्याप्तिवचनेष्वलमर्थेषु' इति तुमुन् । अत्रानन्तमिति विशेष्यं सहस्रशीर्षत्वमभिप्रयत्सत् ‘सहस्रनामतत्तुल्यं रामनाम’ इति श्रीविष्णुसहस्रनामसमानवैभवरामनाममहिमवर्णनपटुतारूपवच्यार्थौन्मुख्यमुपैति ॥