पृष्ठम्:कादम्बरीकथासारः.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२७
कादम्बरीकथासारः

अमात्यवगैरभिनन्द्यमानः
सन्मङ्गलं राजगृहं प्रपेदे ।। ८१ ॥

उच्चावचाभिः कुलपालिकानां
आशीर्भिरुच्चैरभिवर्यमानः।
प्राग्द्वारवेदिस्थितपूर्णकुंभ
कक्षान्तरं भूमिपतेर्विवेश ।। ८२ ॥

मध्येसभं दिग्विजयान्निवृत्तः
सिंहासनस्थं पितरं कुमारः ।
कोटीरबद्धाञ्जलिनानतेन
मूत्रं ननाम स्पृहणीयकीर्तिः ॥ ८३ ॥

तं पादपीठे विनिवेश्य पुत्रं
प्रेम्णा नृपः 1प्रश्रयनम्रमूर्तिम् ।
आनन्दबाष्पाविलमौलिरने
मुहुर्मुहुर्नूनं चिरेण जघ्रौ ।। ८४ ॥

ततः स दृष्ट्वा जननीं च पश्चा-
दन्तः पुराण्यागमनोत्सुकानि ।
विवेश सन्मङ्गलमात्मगेहं
प्रध्मातशङ्कध्वनिमिश्रतूर्यम् ॥ ८५ ॥

न केवलं शून्यममंस्त काम-
मात्मानमेव प्रमदावियुक्तम् ।
पुरीं विशालामपि भोगयोग्याः
मनघेरत्नप्रभवां च भूमिम् ॥ ८६ ।।


1. प्रश्रयनम्रमूर्तिरिति मातृका ।