पृष्ठम्:कादम्बरीकथासारः.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२१
कादम्बरीकथासारः

1निष्टप्तजाम्बूनदपुत्रिकाओं
तामेव संस्मृत्य मृगायताक्षीम् ।।
दिवानिशं चोत्कलिकाधिरूढः
सन्तापमन्तर्बहिराससाद ।। ४९ ॥

गन्धर्वपुत्र्या विरहेण दीनः
करीव कान्तारपथे करिण्याः।
तां दीर्घयामां नृपतिनियामा
मुन्नद्र एव क्षपयांबभूव ॥ ५० ॥

अन्येद्युरुर्वीपतिमुज्जयिन्याः
कुशाग्रधीः कश्चिदुपेत्य दूतः।
प्रणम्य साष्टाङ्गमुदारचेष्ट
माज्ञां महीभर्तुरुदाजहार ॥ ५१ ॥

तव प्रस्वंसवियोगखिन्ना
वशव बालस्य यनान्तरेषु ।
उपेतं सन्तापमका विलय
कर्तुं न युक्तं विदुषा त्वमेति ॥ ५२ ॥

निशम्य दूतस्य वचोऽनुरूपं
रथाङ्गनामेव दिनावसाने ।
विचिन्तयन्प्राणसमा वियोग
कम कुमारः कलुषाशयोऽभूत् ॥ ५३ ॥


1. निस्तप्त इति मातृका।।


५२. यालय=g६षे वयसो कलभस्य, दशा फरेणुः ।