पृष्ठम्:कादम्बरीकथासारः.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२०
श्री त्रिविक्रमविरचितः


विवेश दिव्यानि निरामयानि
प्रशान्तसत्वानि तपोवनानि ॥ ४३ ॥

स्विन्नालिकान्भर्तृनियुक्त में
पर्याकुलान्ध्याकुलीशपाशान् ।
विलोकयन्त्रीतमना बभूव
मुग्धान्स वैखानसधर्मदारान् ।। ४४ ।।

स शुष्मणां मध्यगतं चतुण
पढमण भास्वति दत्तदृष्टिम् ।
विश्वधिकं ज्योतिषि लग्नचित
मूष्मायमाणाङ्गमृषिं ननाम ॥ ४५ ॥

पद्मासनस्थस्य नृपो महर्षेः
निरञ्जने ब्रह्मणि लीनबुद्धेः ।
दृष्टांसकूटे निजकण्ठनालं
कण्डूयमानां हरिणीं ननन्द ।। ४६ ॥

गन्धर्वविद्याधरसेव्यमानं
प्रच्छायकल्पद्रुमचारुतारम् ।
नरेश्वरोऽध्वश्रमदीनवाहः
शुद्धोदमच्छोदमुपाससाद ।। ४७ ।।

स तत्र चीनांशुकमण्डपेषु
नरेन्द्रभोगार्हपरिच्छदेषु ।
स मन्त्रिपुत्रो मदनातुरोऽपि
चक्रे शरीरस्थितिकार्यमार्यः ॥ ४८ ॥


४४. चिमालिकान् स्वेदजलार्दूललाटान् ।