पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२
[ शिक्षावल्ली
तैत्तिरीयोपनिषत्


-इति प्राचीनयोग्योपस्स्व ( २) ॥

वायावभृतमेकं च ॥

इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शिक्षावल्ल्यां षष्टोऽनुवाकः ॥ ६ ॥

अथ शिक्षावल्ल्यां सप्तमोऽनुवाकः ।

( पृथिव्याद्युपाधिकब्रह्मोपासनम् )

(मन्दाधिकारी )

पृथिव्यन्तरिक्षम् द्यौर्दिशोऽवान्तरदिशाः। अग्नि

र्वायुरादित्यश्चन्द्रमा नक्षत्राणि । आप ओषधयो

वनस्पतय आकाश आत्मा । इत्यधिभूतम् ।

मम्, मनआनन्दम् -आनन्दभूतं सुखकृदेव यस्य मनः, तन्मनआनन्दम्; शान्तिसमृद्धम्--शान्तिरुपशमः, शान्तिश्व तत्समृद्धं च शान्तिसमृद्धम्, शान्त्या वा समृद्धं तदुपलभ्यत इति शान्तिसमृद्धम्; अमृतममरणधर्मि;-एतच्चाधिकतरं विशेषणं तत्रैव--मनोमयः-—इत्यादौ द्रष्टव्यमिति।

उपासनाविधिः  एवं मनोमयत्वादिधर्मैर्विशिष्टं यथोक्तं ब्रह्म हे प्राचीनयोग्य, उपास्स्व । 'उपास्स्व-इत्याचार्यवचनोक्तिरादरार्था। उक्तस्तूपासनशब्दस्यार्थः॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषच्छिक्षावल्लीभाष्ये षष्ठोऽनुवाकः ॥ ६ ॥


हिरण्यगर्भपासनम्  यदैतह्याहृत्यात्मकं ब्रह्मोपास्यमुक्तं, तस्यैवेदानीं पृथिव्यादिपाङ्क्तस्वरूपेणोपासनमुच्यते । पञ्चसङ्ख्या- योगा त्पङ्क्तिच्छन्दःसंपात्तिः; ततः पाङ्क्तत्वं सर्वस्य । पाङ्क्तश्च यज्ञ:,–"पञ्चपदा पङ्क्ति: पाङ्क्तो यज्ञः” इति श्रुतेः । तेन यत्सर्वं लोकाद्यात्मान्तं च पाङ्क्तम् परिकल्पयति, यज्ञमेव तत्परिकल्पयति । तेन यज्ञेन परिकल्पितेन पाङ्क्तात्मकं प्रजापतिमभिसंपद्यते । तत्कथं पाङ्क्तमिदं सर्वमित्यत आह -

आधिभौतिकगुणपञ्चकत्रयम्  'पृथिव्यन्तरिक्षम् द्यौर्दिशोऽवान्तरदिशाः-इति लोकपाङ्क्तम्; अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि–इति देवतापाङ्क्तम्; आप ओषधयो वनस्पतय आकाश आत्मा-इति भूतपाङ्क्तम्;आत्मेति विरा-


उत्तरोऽप्यनुवाकः प्रकारान्तरेण हिरण्यगर्भापासनविषय इत्याह—यदेतदित्यादिना । पृथि


(१) पृ. १२. (२) ऐ. आ. १. ३. ८. (३) वृ. ३. १. ४. १७ऐ. ब्रा. ३. २३ ५. १९.