पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ४]
( २७९ )
टीकाद्वयसहितम्।


 शार्ङ्गरवः-युगान्तरमारूढः सविता । त्वरतामत्रभवती ।
 शकुन्तला-( आश्रमाभिमुखी स्थित्वा ) ताद, कदा णु भूओ तवोवणं पेक्खिस्सं । [ तात, कदा नु भूयस्तपोवनं प्रेक्षिष्ये |
 काश्यपः-वत्से, श्रूयताम् ।

भूत्वा चिराय चतुरन्तमहीसपत्नी
दौष्यन्तिमप्रतिरथं तनयं निवेश्य ।
भर्त्रा तदर्पितकुटुम्बभरेण सार्धे
शान्ते करिष्यासि पदं पुनराश्रमेऽस्मिन् ॥ २० ॥


ज्ञेयं चाधिबलं बुधैः ? इति । युगान्तरं हस्तचतुष्कावधि ‘युगं हस्तचतुष्केऽपि ’ इति विश्वः । तात, कदा नु भूयस्तपोवनं प्रेक्षिष्ये । भूत्वोत । चिराय चिरकालम् । चत्वारः समुद्राः । विशेषणेनैव विशेष्य प्रतिपत्तिः । तेऽन्तो यस्याः सा चासौ मही च तस्याः सपत्नी भुत्वा । चतुरुदधिमेखालितभूमिवलयोपभोगमुपभुज्येति भावः । दुष्यन्तस्यापत्यं दौष्यन्तिस्तम् । ‘अत इञ्' न विद्यते प्रति संमुखं ( खो ) रथो यस्य स तम् । प्रतिपक्षाभावात् । ‘मात्रार्थे चाभिमुख्ये च प्रतिदानादिषु प्रति। इति विश्वः । अनेन विशेषणद्वयेन महीभारक्षमत्वं ध्वनितम् । निवेश्य स्थापयित्वा । अर्थान्महीसपन्त्याम् । अत्र सपत्नीग्रहणेन तस्या अपि मातृवं सूचितम् । यद्यपि सपत्नी तथापि त्वयि सत्यामेव सपत्नभावः । त्वया समर्पिते तु तन्नास्तीति भावः । भर्त्रा स सहेति गौणत्वमेतां प्रत्युत्तर दानेनास्याः प्रकृतत्वान्नानुपपन्नम् । अत्र तस्यां महीसपत्नीत्वं तस्यां तन्निवेशनं तस्मिंश्च कुटुम्बभरनिवेशनमिति मालादीपकम् । अत्र यावद्दुष्यन्त धारणं पितृभक्त्या तं प्रति मह्या मातृत्ववर्णनं नानौचित्यमावहति | शान्ते


भूत्वेत्यादि । चतुरन्तमंहीसपत्नी चत्वारो अंता यस्याः सा समस्तेत्यर्थः । सा चासौ मही च सा तथोक्ता तस्याः सपत्नीभूत्वा पट्टमहिषी भूत्वेति यावत् । दुष्यन्तस्यापत्यं दौष्यन्तिः तमप्रतिरथमप्रतिरथिकम् । अत्र रथशब्देन रथिको लक्ष्यते । शांते रागद्वेषरहिते ।


१ आधिरूढः इति क्कo पु० पाठः । २ खु भूओ वि (खलु भूयोऽपि ) इति क्क पु°

पाठः । ३ द्रक्ष्यामि इति क्क° पु० पाठः । ४ प्रसूय इति क्क पु• पाठः ।