पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
right
center

( ९२ )अभिज्ञानशाकुन्तलम् | [ प्रथमः


 प्रियंवदा--तेण हि इमस्सिं पच्छाअसीअलाए सत्तवण्णवोदि- आए मुहुत्तअं उवविसिअ परिस्समविणोदं करेदु अज्जो  राजा-- नूनं यूयमप्यनेन कर्मणा परिश्रान्ताः  अनसूया--हला सउन्दले, उइदं णो पज्जुवासणं अदिहीणं  शकुन्तला--( आंत्मगतम् ) किं णु क्ग्वु इमं पंक्खिअ तवोवणविरोहिणो विअरस्स गमणीअह्मि संवृत्ता


मरः | तेन ह्यम्यां प्रच्छायशीतलायां सप्तपर्णवादिकायां मुहूर्तमुपविश्य परिश्रमविनोदं परिश्रमप्रशमं करोत्वार्यः | ' पुस्त्रियांर्वा ' इत्यनु- वर्तमाने ' स्सिंसयेरत् ' इति सूत्रेण विकल्पेनाकारादेशे अस्सिं अस्स इमस्सि इमस्सेति स्त्रीपुंसयोः समानं रूपम् | अनेन कर्मणा वृक्षसेचनेन | उचितं नः पर्युपासनभतिथीनाम् | अत्रोपविशामः | आत्मगतं स्वगत- मित्यस्थ पर्यायः | किं नु खल्विति जिज्ञासायाम् |' खलु वीप्सानिषे- धयोः | जिज्ञासायामनुनये वाक्यालंकरणेऽपि च ' इति हैमः | इमं प्रेक्ष्य


सत्ययोः " इत्यमरः | नेणेत्यादि || करोत्विति प्रार्थनाया लोट् | प्रकृष्ट छाया यत्र तत्स्थानं ग्रच्छायम् | " छाया त्वनानपे कांनौ ग्रतिविंयार्कज्ञययोः |" इति निश्चः | तेन शीतला शीतमस्यास्तीनि शीतला " सिघ्मादि " इत्यादिना अलच् |" सप्तपर्णो विशालत्वक्छारदो विषमच्छदः " इत्यमरः | सप्तपर्ण इत्यत्रवृत्तिविषये. संख्याशब्दस्य वीप्सार्थकत्वं महाभाष्ये प्रतिपादितम् | नन्वित्यादि | नन्विति संबोधने अनेन कर्मणा वृक्षसेचनव्यापारेण परिश्रान्ताः खिन्नाः युष्माभिरपि स्थानव्यमित्यर्थः || हलेत्यादि || तचितं न्याय्यम् | " अम्यस्तेऽप्युचिनं न्याय्यम् " इति यादवः | सविमर्शेभिति | अननुभूतपूर्वस्वकीयचित्तविकारावमर्शः | किंण्विति || तपोवनस्य न तु वनमात्रस्य विरो- धिनः ग्रतिषिद्धस्य शांतिप्रधाने तपोवने मदनविकारस्यायोगात् | विआरस्स विकारस्य विचा-


१ ननु इ० पा०