पृष्ठम्:अलङ्कारमणिहारः.pdf/२१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
212
अलंकारमणिहारे

अथोत्प्रेक्षासरः.


यदन्यधर्मसंबन्धादन्यस्यान्यत्वतर्कणम् ।
सोत्प्रेक्षोक्ता त्रिधैषा स्याद्वस्तुहेतुफलात्मना ॥
उक्तानुक्तास्पदत्वेन वस्तू्त्प्रेक्षा द्विधा मता ।
हेतूत्प्रेक्षाफलोत्प्रेक्षे सिद्धासिद्धास्पदत्वतः ॥

 अन्यस्य विषयिणो यो धर्मः तत्सम्बन्धरूपान्निमित्तात् अन्यस्य अन्यविषयकं अन्यत्वतर्कणं अन्यत्वेन संभावनं विषायिणस्तादात्म्येन संभावनमित्यर्थः । अन्यस्येति षष्ठ्यर्थो विषयताधर्मितारूपा, विषयिण इति षष्ठ्यर्थस्तु विशेषणतारूपा विषयता । अन्यत्वेनोत्कीर्तनं च संभावनाया आहार्यतासूचनाय । तथाच विषयिनिष्ठधर्मसंबन्धप्रयुक्तं विषयधर्मिकं तादात्म्यसंसर्गेण विषयिविधेयकमाहार्यसंभावनमुत्प्रेक्षेति पर्यवसितम् । तन्निष्ठधर्मसंबन्धप्रयुक्तमाहार्यतत्संभावनमिति तु निष्कर्षः । इतरांशस्तु अव्यावर्तकत्वेन स्वरूपकथनमात्रपरः । 'मुखं चन्द्रं मन्ये' इत्युत्प्रेक्षायां चन्द्रनिष्ठाह्लादकत्वादिधर्मसंबन्धप्रयुक्तं मुखे चन्द्रसंभावनमाहार्यमस्तीति लक्षणानुगतिः । बाधाद्यभावदशायां तु जायमाना मुखादौ चन्द्रादिसंभावना नोत्प्रेक्षेति तद्वारणायाहार्येति ॥

 एतेन--

 दुन्दुभिकाहलहलहलबन्धुरमखिलं दिगन्तरालमभूत् । यत्तन्मन्ये फणिगिर्युत्तंसो भजति सपदि जययात्राम् ॥ ३७२॥