पृष्ठम्:अलङ्कारमणिहारः.pdf/१८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
181
अपह्नुतिसरः (१३)

अत्र भगवद्गतस्य संदेहस्य तन्नयनयुगे उपचारः । न च मुकुराभेदधियो नयनयुगप्रवृत्त्युपायत्वेनापेक्षणादिदंपदार्थाभेदधीर्निष्प्रयोजनेति वाच्यम् । एकपदार्थधर्मिकापरपदार्थधियः अपरपदार्थधर्मिकैकपदार्थाभेदबोधप्रयोजकतया मुकुराभेदबोधसाम्राज्यात् मुकुरत्वमेतद्वृत्ति तद्वृत्ति वेति संशयाकारः । सोऽयं संदेहध्वनिः ॥

 द्रुतकनकप्रतिमावाऽऽवर्तितविद्युल्लताप्रतिकृतिर्वा । कुरुविन्दलेखिका वा मुकुन्दहृदयेऽरविन्दनिलया वा ॥ ३१८ ॥

 यद्यपीहापि वाचकशब्दानुपादानात्संदेहो व्यङ्ग्य एवार्हति भवितुम्, तथाऽपि विषयनिरूपणेन स्पष्टतयोक्तत्वान्न ध्वनिव्यपदेश्यताया हेतुः, अपि तु गुणीभूतव्यङ्ग्यप्रभेदव्यपदेश्यतायाः ॥

इत्यलङ्कारमणिहारे सन्देहसरो द्वादशः.


अथापह्नुतिसरः.



आहार्याभेदबुद्धेश्चेन्निषेधोऽङ्ग्यङ्गमेव वा ।
एतां सामान्यतः प्राहुरपह्नुतिमलंकृतिम् ॥

 आहार्याभेदप्रतिपत्तिनिरूपिताङ्गाङ्गिभावान्यतरवन्निषेधत्वमपह्नुत्यलंकारसामान्यलक्षणम् । निषेधश्च नञाद्युपादाने वाच्यः, क्वचित्तु तदभावात्कैतवच्छलादिपदैः परमतत्त्वोपन्यासादिभिश्च व्यङ्ग्यः, तथा क्वचिदभेदप्रतिपत्तिसमानाधिकरणः क्वचित्तु त-