पृष्ठम्:अलङ्कारमणिहारः.pdf/४३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
426
अलंकारमणिहारे


 अत्र भगवच्चिन्तनं विना स्वान्तस्य भगवदर्पणं विना कर्मणश्चारमणीयत्वं किमिति क्षेपेण फलप्रश्नेन वा व्यज्यते । तस्य च भगवद्विषयकभावध्वन्यनुग्राहकत्वेऽप्यप्रतिहतैव ध्वनिव्यपदेश्यता । अन्यथाऽनुग्राहकत्वलक्षणसंकरोच्छेदापत्तिरिति ॥

इत्यलंकारमणिहारे विनोक्तिसरश्चतुर्विंशः


अथ समासोक्तिसरः


 साम्याद्भेदकमात्रस्य गम्यमप्रस्तुतं यदि । समासोक्तिमिमां प्राहुः प्राञ्चोऽलंकारवेदिनः ॥

 भेदकं विशेषणम् । विशेषणमात्रसाम्यगम्याप्रस्तुतवृत्तान्ता समासोक्तिः समासेन संक्षेपेण प्रक्ष्तुताप्रस्तुत वृत्तान्तयोर्वचनात् ।

असावुदयमारूढः कान्तिमान्रक्तमण्डलः ।
राजा हरति लोकानां हृदयं मृदुभिः करैः ॥

 इति प्रकृताप्रकृतश्लेषे चाप्रकृतनृपवृत्तान्तस्य विशेष्यवाचिना श्लिष्टेन राजपदेनाप्यवगमान्न तत्रातिव्याप्तिः ॥

 यथा--

 सामोदबाष्पगद्गदरोमोद्गमवेपथुप्रळयललितम्। आलिङ्गति फणधरगिरिमौलिं भक्त्युन्मुखा मदीयमतिः ॥ ७३२ ॥