पृष्ठम्:अलङ्कारमणिहारः.pdf/८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
81
अनन्वयसरः (३)


अब्भ्रगङ्गासुरपथगङ्गेत्याभ्यां वेङ्कटाद्रिगता आकाशगङ्गोच्यते 'स्वामिपुष्करिणी चैव वियद्गङ्गा ततःपरम्’ इति ब्राह्मोक्तेः । अत्र क्विपि क्यङि च धर्मवाचकलुप्तोपमेयोपमा । अनयैव दिशा प्रतिभाशालिभिरन्येऽपि तत्प्रभेदा यथासम्भवमुन्नेयाः ॥

इत्यलङ्कारमणिहारे उपमेयोपमासरो द्वितीयः.

अथानन्वयसरः.


 अनन्वयो यदेकस्यैवोपमानोपमेयता ॥

 यत्रैकस्यैवोपमानोपमेयभावो निबध्यते तत्रानन्वयः । वर्ण्यमानमपि स्वस्य स्वेन साधमर्यं नान्वेतीति व्युत्पत्तेः । यथा रुद्ररोदनवपोच्छेदनाद्यर्थवादे स्तुतिनिन्दाभूतस्यासदर्थस्य निबन्धनं स्तुतिनिन्दयोरुपयुज्यते तथैवानन्वयिनोऽपि स्वस्य स्वेन सादृश्यवर्णनं द्वितीयसब्रह्मचारिव्यवच्छेदेनानुपमत्वद्योतनायोपयुज्यते । एवं च द्वितीयसदृशव्यवच्छेदफलकवर्णनविषयीभूतमेकोपमानोपमेयकं सादृश्यमनन्वय इति पर्यवस्यति । स च कस्याप्युपस्कारकत्वेऽलंकारः। अन्यथा तु स्ववैचित्र्यमात्रविश्रान्तः । एवमलंकारान्तरेष्वपि ॥

 सविधे विचरति भगवति समुदितमेचकिमवृषशिखरिशिखरम् । प्रावृषि विजृम्भमाणैरम्भोदैरिव करम्भितं भाति ॥ १३२ ॥

ALANKARA
11