पृष्ठम्:अलङ्कारमणिहारः.pdf/३४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
334
अलंकारमणिहारे

अथावृत्तिदीपकसरः.


समस्तयोर्व्यस्तयोर्वाऽऽवृत्तौ पदतदर्थयोः ।
आवृत्तिदीपकं प्राहुस्त्रिविधं बुधसत्तमाः ॥

 पदतदर्थयोस्समस्तयोर्ब्यस्तयोश्चानेकोपकारकतया दीपस्थानीययोरावृत्तौ त्रिविधमावृत्तिदीपकमित्यर्थः । पदतदर्थयोरुभयोरावृत्तावेकः प्रकारः, पदस्यैव अर्थस्यैव चावृत्तौ द्वौ प्रकाराविति त्रयोऽस्य प्रकाराः। एकक्रियाया अनेककारकान्वयवदनेककारकस्यावृत्तक्रियान्वयादावृत्तिदीपकमित्यन्वर्थाभिधानमिदम् ॥

 यथाक्रममुदाहरणानि--

 हरिभूभृदुदयभाजो हरेर्महस्फूर्तिपरिचये नॄणाम् । विकसति दृगब्जबृन्दं विकसति हृदयाब्जबृन्दं च ॥ ५७३ ॥

 हरिभूभृत् वेंकटगिरिः स एव उदयः तं भजतीति तथोक्तः । तस्य हरेः भगवत एव भानुमतः महस्फूर्तिरुत्सवस्फूर्तिरेव तेजस्स्फूर्तिः तस्याः परिचये सति । अत्र विकसनक्रियातद्वाचकपदयोर्द्वयोरावृत्तिरितीदमुभयावृत्तिदीपकम् ॥

 यथा वा--

 कर्षति दृगेकतो मां श्रुतिरेषाऽन्यत्र कर्षति मुरारे । रसना परत्र कर्षति साध्वी भक्तिः किमत्र कुर्वीत ॥ ५७१ ॥