पृष्ठम्:अलङ्कारमणिहारः.pdf/३३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
327
दीपकालंकारसरः (१७)

 यथा-

 आचार्यकृपाप्लुतता वाचा मधुमधुरकवनगम्भीरा। सा चाच्युताङ्घ्रिभक्तिः प्राचां परिपाक एव सुकृतानाम् ॥ ५५८ ॥

 वाचेति टाबन्तश्शब्दः । अत्र प्रस्तुताया अच्युताङ्घ्रिभक्तेः अप्रस्तुताया आचार्यकृपाप्लुततादेश्च प्राचीनसुकृतपरिपाकलक्षणगुणरूपैकधर्मान्वयः । अत्र कस्यचिदेव प्रस्तुतत्वे दीपकं, अन्यथा तुल्ययोगितैव ॥

 यथा-

 रक्तिविहीना वनिता शक्तिविहीना न शोभते नृपता । युक्तिविहीना कविता भक्तिविहीना मतिस्त्वयि च शौरे ॥ ५५९ ॥

 अत्राभावस्साधारणो धर्मः, मतान्तरे त्वभावोऽपि गुण एवेति तुल्ययोगितानिरूपणावसरेऽवोचाम । अत्रापि कस्यचिदेव प्रकृततायां दीपकं सर्वेषां प्रकृतत्वे अप्रकृतत्वे वा तुल्ययोगितेत्यनुसंधेयम् । यत्र तु क्रिया साधारणो धर्मः तत्र यावतां कर्त्रादिकारकाणां सन्निधानं तेषां स्वसजातीयेनान्येन सह तुल्ययोगिता दीपकं वा पृथक्पृथग्भवति, औपम्यस्यापि पृथगेव भासमानत्वात् ॥

 यथा--

 लावण्यं ललनामणिमारुण्यं विद्रुमं वृषाद्रि-