पृष्ठम्:अलङ्कारमणिहारः.pdf/२८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
281
अतिशयोक्तिसरः (१५)

लक्ष्यमाणगुणसंबन्धाद्विषयिणो विषयगतत्वेनारोप्यमाणतया भिन्नस्यापि विषयिणो विषयक्रोडीकारेण प्रवृत्तत्वादभिन्नतया प्रतीतिः तत्राध्यवसायस्सिद्धः । एतदाश्रयेणातिशयोक्तेः प्रथमः प्रकारोऽनुपदमेव प्रदर्शयिष्यते । यत्र पुनरुपात्तविषयत्वाद्विषयिणो भिन्नत्वेन प्रतिभानं तत्र व्यञ्जनव्यापारेणाभिन्नत्वप्रतीतेस्साध्यमानत्वात्साध्यः । एतदवलम्बनेन प्रवृत्तिस्संभावनमूहो वितर्क इत्याद्यपरपर्यायाया उत्प्रेक्षाया इत्यनयोर्भद इति ॥


इत्यलंकारमणिहारे उत्प्रेक्षासरश्चतुर्दशः



अथातिशयोक्तिसरः.


निगीर्य विषयं यत्र विषय्येवाध्यवस्यते ।
रूपकातिशयोक्तिं तामलंकारविदो विदुः ॥

 आरोपविषयस्य मुखादेर्विशिष्य तद्वाचकपदोपादानेन विनाऽपि विषयिवाचकैश्चन्द्रादिपदैरेव ग्रहणं विषयनिगरणम् । तत्पूर्वकं विषयस्य विषयिरूपतयाऽध्यवसानं यत्र तत्र रूपकातिशयोक्तिः । विषयिरूपतयेत्यत्र रूपं च अभेदताद्रूप्यान्यतरत् । एवं च अनुपात्तविषयधर्मिकाहार्यनिश्चयविषयीभूतं विषय्यभेदताद्रूप्यान्यतरद्रूपकातिशयोक्तिरिति लक्षणं बोध्यम् । रूपकवारणायानुपात्तेति। तत्र हि विषयो मुखादिरुपात्तः । अयमेव हि रूपकादस्यां विशेषोऽतिशय उच्यते । भ्रान्तिमद्वारणायाहार्येति । उत्प्रेक्षावारणाय निश्चयेति । अत्र च विषयविषयिणोरेकपदोपात्तत्वान्नोद्देश्यविधेयभावस्संभवति । विभिन्नपदोपात्तयोरेव तदवतारात् ॥

 ALANKARA
36